२८४

ननु भगवन्-नामात्मका एव मन्त्राः । तत्र विशेषेण नमः-शब्दाद्य्-अलंकृताः श्री-भगवता श्रीमद्-ऋषिभिश् चाहित-शक्ति-विशेषाः, श्री-भगवता समम् आत्म-सम्बन्ध-विशेष-प्रतिपादकाश् च । तत्र केवलानि श्री-भगवन्-नामान्य् अपि निरपेक्षाण्य् एव परम-पुरुषार्थ-फल-पर्यन्त-दान-समर्थानि । ततो मन्त्रेषु नामतोऽप्य् अधिक-सामर्थ्ये लब्धे कथं दीक्षाद्य्-अपेक्षा ?

उच्यते—यद्यपि स्वरूपतो नास्ति, तथापि प्रायः स्वभावतो देहादि-सम्बन्धेन कदर्थ-शीलानां विक्षिप्त-चित्तानां जनानां तत्-तत्-संकोचीकरणाय श्रीमद्-ऋषि-प्रभृतिभिर् अत्रार्चन-मार्गे क्वचित् क्वचित् काचित् काचिन् मर्यादा स्थापितास्ति । ततस् तद्-उल्लङ्घने शास्त्रं प्रायश्चित्तम् उद्भावयति । तत उभयम् अपि नासमञ्जसम् इति तत्र तत्-तद्-अपेक्षा नास्ति । यथा श्री-राम-मन्त्रम्1 उद्दिश्य रामार्चन-चन्द्रिकायां—

वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः ।
गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि ।
विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः ॥ इति ।

एवं साध्यत्वादि-परीक्षानपेक्षा च क्वचित् श्रूयते । यथोक्तं मन्त्र-देव-प्रकाशिकायाम्—

सौर-मन्त्राश् च येऽपि स्युर् वैष्णवा नारसिंहकाः ।
साध्य-सिद्ध-सुसिद्धारि-विचार-परिवर्जिताः ॥ इति ।

तन्त्रान्तरे—

नृसिंहार्क-वराहाणां
प्रसाद-प्रवणस्य च ।
वैदिकस्य च मन्त्रस्य
सिद्धादीन् नैव शोधयेत् ॥

इति ।

सनत्-कुमार-संहितायाम्—

साध्यः सिद्धः सुसिद्धश् च
अरिश् चैव च नारद ।
गोपालेषु न बोद्धव्यः
स्व-प्रकाशो यतः स्मृतः ॥

अन्यत्र—

सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वय-जन्मभेषु ।
दाता फलानाम् अभिवाञ्छितानां
द्राग् एव गोपालक-मन्त्र एषः ॥[क्र।दी। १.४] इत्य्-आदि ।

मर्यादा, यथा ब्रह्म-यामले—

श्रुति-स्मृति-पुराणादि-
पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर्
उत्पातायैव कल्पते ॥

इत्थम् अभिप्रेतं श्री-पृथिव्या चतुर्थे—

अस्मिन् लोकेऽथवामुष्मिन्
मुनिभिस् तत्त्व-दर्शिभिः ।
दृष्टा योगाः प्रयुक्ताश् च
पुंसां श्रेयः-प्रसिद्धये ॥

तान् आतिष्ठति यः सम्यग्
उपायान् पूर्व-दर्शितान् ।
अवरः श्रद्धयोपेत
उपेयान् विन्दतेऽञ्जसा ॥

तान् अनादृत्य योऽविद्वान्
अर्थान् आरभते स्वयम् ।
तस्य व्यभिचरन्त्य् अर्था
आरब्धाश् च पुनः पुनः ॥ [भा।पु। ४.१८.३-५]

अत एवोक्तं पाद्मे श्री-नारायण-नारद-संवादे—

मद्-भक्तो यो मद्-अर्चां च
करोति विधिवद् ऋषे ।
तस्यान्तरायाः स्वप्नेऽपि
न भवन्त्य् अभयो हि सः ॥

इति ।

अर्चनम्

तद् एतद् अर्चनं द्विविधं—
केवलं, कर्म-मिश्रं च ।

केवलम्

तयोः पूर्वं +++(→केवलं)+++
निरपेक्षाणां श्रद्धावतां दर्शितम् आविर्-होत्रेण,

य आशु हृदय-ग्रन्थिम्[११.३.४७]2

इत्य्-आदौ।

उक्तं च श्री-नारदेन—

यदा यस्यानुगृह्णाति
भगवान् अत्म-भावितः ।
स जहाति मतिं लोके
वेदे च परिनिष्ठिताम् ॥ [भा।पु। ४.२९.४७]

इति ।

अत्र श्रीमद्-अगस्त्य-संहिता च—

यथा विधि-निषेधौ च मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥

इति ।

कर्म-मिश्रम्

उत्तरं +++(→कर्म-मिश्रं)+++
व्यवहार-चेष्टातिशयवत्ता–
यादृच्छिक-भक्त्य्-अनुष्ठानवत्तादि-लक्षण-लक्षित-श्रद्धानां,3

तथा तद्-वैपरीत्य-लक्षित-श्रद्धानाम् अपि प्रतिष्ठितानां,

तद्-भक्ति-वार्तानभिज्ञ-बुद्धिषु साधारण-वैदिक-कर्मानुष्ठान-लोपोऽपि मा भूद्

इति लोक-सङ्ग्रह-पराणां गृहस्थानां दर्शितम् ।

यथा

न ह्य् अन्तो ऽनन्त-पारस्य
[भा।पु। ११.२७.६]

इत्य्-आदौ—

सन्ध्योपास्त्य्-आदि-कर्माणि
वेदेनाचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक्-
सङ्कल्पः कर्म-पावनीम् ॥
[भा।पु। ११.२७.११] इत्य्-आदि ।

स्पष्टम् ।

॥ ११.२७ ॥ श्री-भगवान् ॥ २८४ ॥


  1. रामचन्द्रं इस् थे रेअदिन्ग् फ़ोउन्द् इन् अल्ल् सोउर्चेस् बुत् अन्द् ज। ↩︎

  2. य आशु हृदय-ग्रन्थिं
    निर्जिहीर्षुः परात्मनः विधिनोपचरेद् देवं
    तन्त्रोक्तेन च केशवम्

     ↩︎
  3. लक्षितानां (च) ↩︎