२८३

अत्र पाद-सेवायां श्री-मूर्ति-दर्शन-स्पर्श-परिक्रमानुव्रजन-भगवन्-मन्दिर-गङ्गा-पुरुषोत्तम-द्वारका-मथुरादि-तदीय-तीर्थ-स्थान-गमनादयोऽप्य्1 अन्तर्-भाव्याः, तत्-परिकर-प्रायत्वात् । यावज्-जीवं तन्-मन्दिरादि-निवासस् तु शरणापत्ताव् अन्तर्भवति । गङ्गादीनां तत्-स्थ-प्राणि-वृन्दानां च परम-भागवतत्वम् एवेति पक्षे तुतत्-सेवादिकं महत्-सेवादाव् एव पर्यवस्यति । ततो गङ्गादिष्व् अपि भक्ति-निदानत्वं भवेत् । अत एव—

शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भा।पु। १.२.१६] इति ।

अत्र पुण्य-तीर्थ-शब्दोक्तस्य गङ्गादेः पृथक्-कारणत्वं व्याख्येयम् । यथा तृतीये—यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् [भा।पु। ३.२८.२२] इति । शिवत्वं नाम ह्य् अत्र परम-सुख-प्राप्तिर् इति टीका-कृन्-मतम् । तादृश-सुखत्वं च भक्ताव् एव पर्यवसितम्, तत ऊर्ध्वं सुखान्तराभावात् । ब्राह्मे पुरुषोत्तमम् उद्दिश्य—

अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥

स्कान्दे—

संवत्सरं वा षण्-मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥

पाद्म-पाताल-खण्डे—

अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥

आदि-वाराहे ताम् उद्दिश्य, जन्म-भूमिः प्रिया मम इति । एषु च स्वोपासना-स्थानम् अधिकं सेव्यम् । श्री-कृष्णस्य पूर्ण-भगवत्त्वात् तत्-स्थानं तु सर्वेषाम् एव पूर्ण-पुरुषार्थदं भवेत् । अत एव आदिवाराहे—

मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहितो मम मायया ॥ इति ।

तद् एवं तुलसी-सेवा च सत्-सेवायाम् अन्तर्भाव्या, परम-भगवत्-प्रियत्वात् तस्याः । यथा अगस्त्य-संहितायां गारुड-संहितायां च—

विष्णोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा ।
प्रिया तथैव तुलसी सर्व-लोकैक-पावनी ॥ इति ।

स्कान्दे—

रतिं बध्नाति नान्यत्र तुलसी-काननं विना ।
देव-देवो जगत्-स्वामी कलि-काले विशेषतः ॥
निरीक्षिता नरैर् यैस् तु तुलसी-वन-वाटिका ।
रोपिता यैस् तु विधिना सम्प्राप्तं परमं पदम् ॥

स्कान्द एव तुलसी-स्तवे—तुलसी-नाम-मात्रेण प्रीणात्य् असुर-दर्प-हा इति । तद् एवं पाद-सेवा व्याख्याता । प्रसङ्ग-सङ्गत्या गङ्गादि-सेवा च ।

अथार्चनम् । तच् चागमोक्तावाहनादि-क्रमकम् । तन्-मार्गे श्रद्धा चेद् आश्रित-मन्त्र-गुरुस् तं विशेषतः पृच्छेत् । तथोदाहृतम्—लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः [भा।पु। ११.३.४८] इत्य्-आदिना ।

यद्यपि श्री-भागवत-मते पञ्चरात्रादिवद् अर्चन-मार्गस्यावश्यकत्वं नास्ति, तद् विनापि शरणापत्त्य्-आदीनाम् एकतरेणापि पुरुषार्थ-सिद्धेर् अभिहितत्वात्, तथापि श्री-नारदादि-वर्त्मानुसरद्भिः श्री-भगवता सह सम्बन्ध-विशेषं दीक्षा-विधानेन श्री-गुरु-चरण-सम्पादितं चिकीर्षद्भिः कृतायां दीक्षायाम् अर्चनम् अवश्यं क्रियेतैव ।

दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।
तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व कोविदैः ॥
अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥ [ह।भ।वि। २.९-१०] इत्य् आगमात् ।

दिव्यं ज्ञानं ह्य् अत्र श्रीमति मन्त्रे भगवत्-स्वरूप-ज्ञानं, तेन भगवता सम्बन्ध-विशेष-ज्ञानं च । यथा पाद्मोत्तर-खण्डादाव् अष्टाक्षरादिकम् अधिकृत्य विवृतम् अस्ति । ये तु सम्पत्तिमन्तो गृहस्थास् तेषां त्व् अर्चन-मार्ग एव मुख्यः । यथोक्तं श्री-वासुदेवं प्रति मुनिभिः—

अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ [भा।पु। १०.८४.३७] इति ।

तद् अकृत्वा हि निष्किञ्चनवत् केवल-स्मरणादि-निष्ठत्वे वित्त-शाठ्य-विप्रतिपत्तिः स्यात्। पर-द्वारा तत्-सम्पादनं व्यवहार-निष्ठत्वस्यालसत्वस्य वा प्रतिपादकम् ।ततोऽश्रद्धा-मयत्वाद् धीनम्2 एव तत् । ततश् च योऽमायया सततयानुवृत्त्या [भा।पु। १.३.३८]इत्य्-आद्य्-उपदेशाद् भ्रश्येत् ।

किं च, गृहस्थानां परिचर्या-मार्गे द्रव्य-साध्यतयार्चन-मार्गाद् अविशेषेण प्राप्तेऽप्य् अर्चन-मार्गस्यैव प्राधान्यम् अत्यन्त-विधि-सापेक्षत्वात् तेषाम् । तथा गार्हस्थ्य-धर्मस्य देवता-यागस्य शाखा-पल्लवादि-सेक-स्थानीयस्य मूल-सेक-रूपं तद्-अर्चनम् इत्य् अपि तद्-अकरणे महान् दोषः । अतः स्कान्दे श्री-प्रह्लाद-वाक्यम्—

केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यम् अभक्ष्येण समं स्मृतम् ॥ इति ।

दीक्षितानां तु सर्वेषां तद्-अकरणे नरक-पातः श्रूयते । यथा विष्णु-धर्मोत्तरे—

एक-कालं द्वि-कालं वा त्रि-कालं पूजयेद् धरिम् ।
अपूज्यभोजनं कुर्वन् नरकाणि व्रजेन् नरः ॥ इत्य्-आदि ।

अशक्तम् अयोग्यं प्रति च आग्नेये—

पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ।
श्रद्धया मोदयेद् यस् तु सोऽपि योग-फलं लभेत् ॥ इति ।

_योगो_ऽत्र पञ्चरात्राद्य्-उक्तः क्रिया-योगः । क्वचिद् अत्र मानस-पूजा च विहितास्ति । तथा च पाद्मोत्तर-खण्डे—साधारणं हि सर्वेषां मानसेज्या नॄणां प्रिया इति । किं च, अस्मिन्न् अर्चन-मार्गेऽवश्यं विधिर् अपेक्षणीयः । ततः पूर्वं दीक्षा कर्तव्या । अथ शास्त्रीयं विधानं च शिक्षणीयम् ।

दीक्षा यथागमे—

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥
तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु ।
नाधिकारोऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥ [ह।भ।वि। २.३-४] इति ।

शास्त्रीय-विधानं च, यथा विष्णु-रहस्ये—

अविज्ञाय विधानोक्तां हरि-पूजा-विधि-क्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥ इति ।

भक्त्या परमादरेणैव शत-भागं प्राप्नोति । अन्यथा ताव् अन्तम् अपि नेत्य् अर्थः । विधौ तु वैष्णव-सम्प्रदायानुसार एव प्रमाणम् । यतो विष्णु-रहस्ये—

अर्चयन्ति सदा विष्णुं मनो-वाक्-काय-कर्मभिः ।
तेषां हि वचनं ग्राह्यं ते हि विष्णु-समा मताः ॥

कौर्मे—

संपृष्ट्वा वैष्णवान् विप्रान् विष्णु-शास्त्र-विशारदान् ।
चीर्ण-व्रतान् सदाचारान् तद् उक्तं यत्नतश् चरेत् ॥

वैष्णव-तन्त्रे—

येषां गुरौ च जप्ये च विष्णौ च परमात्मनि ।
नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥इति ।

तथाह—

एवं सदा इत्य्-आदौ तन्-निष्ठ-विप्राभिहितः शशास ह [भा।पु। ९.४.२१] इति ।3

अम्बरीष इति प्रकरण-लब्धम् ॥

॥ ९.४ ॥ श्री-शुकः ॥ २८३ ॥


  1. स्नान- (छ, य) ↩︎

  2. दीनम् (छ, झ) ↩︎

  3. एवं सदा कर्म-कलापम् आत्मनः, परेऽधियज्ञे भगवत्य् अधोक्षजे । सर्वात्म-भावं विदधन् महीम् इमां, तन्-निष्ठ-विप्राभिहितः शशास ह ॥ ↩︎