तथा—
न कामयेऽन्यं तव पाद-सेवनाद्
अकिञ्चन-प्रार्थ्यतमाद् वरं विभो ।
आराध्य कस् त्वां ह्य् अपवर्गदं हरे
वृणीत आर्यो वरम् आत्म-बन्धनम् ॥ [भा।पु। १०.५१.५५]
अकिञ्चना मोक्ष-पर्यन्त-कामना-रहिताः । तत्र हेतुः—त्वाम् आराध्य कस् त्वाम् अपवर्गदं सन्तं वृणीत, अपवर्गदतयाविर्भवन्तं समाश्रयेतेत्य् अर्थः । वरम् इत्य् अव्ययम् ईषत् प्रिये । वरम् आत्मनो बन्धनम् एव वृणीत ॥