अथ रुचिः शक्तिश् च चेत् तद्-अपरित्यागेन पाद-सेवा च कर्तव्या । सेवा-स्मरण-सिद्ध्य्-अर्थं च सा कैश्चित् क्रियते । तथा च विष्णु-रहस्ये परमेश्वर-वाक्यम्—
न मे ध्यान-रताः सम्यग् योगिनः परितुष्टये ।
तथा भवन्ति देवर्षे क्रिया-योग-रता यथा ।
क्रिया-क्रमेण योगोऽपि ध्यानिनः सम्प्रवर्तते ॥ इति ।
_योगो_ऽत्र समाधिः । पाद-सेवायां पाद-शब्दो भक्त्यैव निर्दिष्टः । ततः सेवायाः सादरत्वं विधीयते । सेवा च काल-देशाद्य्-उचिता परिचर्यादि-पर्याया । सा यथा—
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ [भा।पु। ४.२१.३१]
तपस्विनां संसार-तप्तानां, मलं तत्-तद्-वासनाम् । तत्-पादस्यैवैष महिमेति दृष्टान्तेनाह—यथेति ॥
॥ ४.२१ ॥ पृथुः श्री-विष्णुम् ॥ २८० ॥