२७९

क्वचिल् लीलादि-युक्ते च तस्मिन्न् अनन्या स्फूर्तिः समाधिः स्यात् । यथाह—

उरुक्रमस्याखिल-बन्ध-मुक्तये
समाधिनानुस्मर तद्-विचेष्टितम् ॥ [भा।पु। १.५.१३]इति ।

स्पष्टम् । एतद्-रूपो दासादि-भक्तानाम् । पूर्वं तु प्रायः शान्त-भक्तानाम् । स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य्-आद्य्-उक्तिभ्यः ॥

॥ १.५ ॥ श्री-नारदो व्यासम् ॥ २७९ ॥