अथ पूर्ववत् क्रम-सोपान-रीत्या सुख-लभ्यं गुण-परिकर-सेवा-लीला-स्मरणं चानुसन्धेयम् । तद् इदं स्मरणं पञ्च-विधम्—यत् किञ्चिद् अनुसन्धानं स्मरणम् । सर्वतश् चित्तम् आकृष्य सामान्याकारेण मनो-धारणं धारणा । विशेषतो रूपादि-विचिन्तनं ध्यानम् । अमृत-धारावद् अविच्छिन्नं तद् ध्रुवानुस्मृतिः । ध्येय-मात्र-स्फुरणं समाधिर् इति ।
तत्र स्मरणम्—
येन केनाप्य् उपायेन स्मृतो नारायणोऽव्ययः ।
अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः ॥ [ना।प। १.१.७७] इति बृहन्-नारदीयादौ ।
धारणा—
विषयान् ध्यायतश् चित्तं विषयेषु विसज्जते ।
माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ [भा।पु। ११.१४.२७] इत्य्-आदौ ।
ध्यानम्—
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ इति नारसिंहादौ ।
तत्र निर्द्वन्द्वं शीतोष्णादि-मय-दुःख-परम्परातीतम् । ईरितं शास्त्र-विहितम् । तच् च पापिनोऽपिप्रसङ्गेनापिपरम् उत्कृष्टं सुहितं विहितं तत्रैवेत्य् अर्थः ।
ध्रुवानुस्मृतिश्च—मद्-गुण-स्मृति-मात्रेण [भा।पु। ३.२९.१०] इत्य्-आदौ, त्रिभुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिः [भा।पु। ११.२.५१] इत्य्-आदौ च । एषैव श्री-रामानुज-भगवत्-पादैः प्रथम-सूत्रे दर्शितास्ति ।
समाधिम् आह—
तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः ।
न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च ॥ [भा।पु। १२.१०.९]
तयो रुद्र-तत्-पत्न्योः । भगवद्-अंश-तच्-छक्तित्वात् जगद्-आत्मनोः तत्-प्रवर्तकयोर् अपि । तत्र हेतुः—रुद्ध-धी-वृत्तिर् भगवद्-आविष्ट-चित्तः, भक्तिं परां भगवति लब्धवान् [भा।पु। १२.१०.६] इति पूर्वोक्तेः । तस्माद् असम्प्रज्ञात-नाम्नो ब्रह्म-समाधितो भिन्न एवासौ ॥
॥ १२.१० ॥ श्री-सूतः ॥ २७८ ॥