किं च—
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किं न्व् अर्थ-कामान् भजतो नात्यभीष्टान् जगद्-गुरुः ॥ [भा।पु। १०.८०.११]
स्मरतः स्मरते । साक्षात् प्रादुर्भूय आत्मानं स्मर्तुर् वशीकरोतीत्य् अर्थः । अर्थ-कामान् इति बहु-वचनं मोक्षम् अप्य् अन्तर्भावयति लिङ्ग-समवाय-न्यायेन । यस्माद् एवं तन्-माहात्म्यं, तस्माद् एव गारुडेऽपीदम् उक्तम्—
एकस्मिन्न् अप्य् अतिक्रान्ते मुहूर्ते ध्यान-वर्जिते ।
दस्युभिर् मुषितेनैव युक्तम् आक्रन्दितुं भृशम् ॥ इति ।
॥ १०.८० ॥ श्रीदाम-विप्र-भार्या तम् ॥ २७७ ॥