तत्र नाम-स्मरणम्—
हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् ।
कीर्तनीयं च बहुधा निर्वृतीर् बहुधेच्छता ॥
इति जाबालि-संहिताद्य्-अनुसारेण ज्ञेयम् । नाम-स्मरणं तु शुद्धान्तः-करणताम् अपेक्षते । तत्-कीर्तनाच् चावरम् इति मूले तु नोदाहरण-स्पष्टता ।
रूप-स्मरणम् आह—
अविस्मृतिः कृष्ण-पदारविन्दयोः
क्षिणोत्य् अभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्म-भक्तिं
ज्ञानं च विज्ञान-विराग-युक्तम् ॥ [भा।पु। १२.१२.५०]
परमात्मनि श्री-कृष्णे प्रेम-लक्षणां भक्तिम् इति मुख्यं फलम्, अन्यानि त्व् आनुषङ्गिकाणि ॥
॥ १२.१२ ॥ श्री-सूतः ॥ २७६ ॥