२७५

तद् एवं कीर्तनं व्याख्यातम् । तत्रास्मिन् कीर्तने निज-दैन्य-निजाभीष्ट-विज्ञप्ति-स्तव-पाठाव् अप्य् अन्तर्भाव्यौ । तथा तत्र श्री-भागवत-स्थित-नामादि-कीर्तनं तु पूर्ववद् अन्यदीय-नामादि-कीर्तनाद् अधिकं ज्ञेयम् । कलौ तु प्रशस्तं तत्—

कृष्णे स्वधामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥[भा।पु। १.३.४३] इति ।

अथ शरणापत्त्य्-आदिभिः शुद्धान्तः-करणश् चेत्, एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् [भा।पु। २.१.११] इत्य्-आद्य्-उक्तत्वान् नाम-कीर्तनापरित्यागेन स्मरणं कुर्यात् । तच् च मनसानुसन्धानम् । यद् एव नामादि-सम्बन्धित्वेन बहु-विधं भवति । तत्र स्मरण-सामान्यम्—

एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।
सर्वतोमन आकृष्य मय्य् अद्धावेश्यते यथा ॥ [भा।पु। ११.१३.१४]

यथा यथावत् । मय्य् आवेश्यत इत्य् एतावान् इत्य् अर्थः । तथा च स्कान्दे ब्रह्मोक्तौ—आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः [लि।पु। २.७.११] इत्य्-आदि ॥

॥ ११.१३ ॥ श्री-भगवान् ॥ २७५ ॥