तद् एवं कलौ नाम-कीर्तन-प्रचार-प्रभावेणैव परम-भगवत्-परायणत्व-सिद्धिर् दर्शिता । तत्र पाषण्ड-प्रवेशेन नामापराधिनो ये, तेषां तु तद्-बहिर्मुखत्वम् एव स्याद् इति व्यतिरेकेण तद् द्रढयति—
कलौ न राजन् जगतां परं गुरुं
त्रि-लोक-नाथानत-पाद-पङ्कजम् ।
प्रायेण मर्त्या भगवन्तम् अच्युतं
यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥
यन्-नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्त-कर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ [भा।पु। १२.३.४३-४४]
स्पष्टम् ॥
॥ १२.३ ॥ श्री-शुकः ॥ २७४ ॥