२७३

ततः कलि-प्रजानां परम-भगवन्-निष्ठतां श्रुत्वा तद्-अर्थं कलाव् एव केवलं निज-जन्म प्रार्थयन्त इत्य् आह—

कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ [भा।पु। ११.५.३८]

तत्-परायणत्वम् अत्र तदीय-प्रेमातिशयवत्त्वम् । एतद् एव परमां शान्तिम् इत्य् अनेन कार्य-द्वारा व्यञ्जितं, मुक्तानाम् अपि सिद्धानां नारायण-परायणः सुदुर्लभः प्रशान्तात्मा [भा।पु। ६.१४.५] इत्य् अत्र यद्वत् ।अत्र कलि-सङ्गेन कीर्तनस्य गुणोत्कर्ष इति न वक्तव्यं, भक्ति-मात्रे काल-देश-नियमस्य निषिद्धत्वात्, विशेषतो नामोपलक्ष्य च विष्णु-धर्मे च क्षत्रबन्धूपाख्याने—

न देश-नियमस् तत्र न काल-नियमस् तथा ।
नोच्छिष्टादौ निषेधश् च हरेर् नामानि लुब्धक ॥ इति ।

स्कान्दे पाद्म-वैशाख-माहात्म्ये विष्णु-धर्मे च—चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् इति । स्कान्द एव च—

न देश-कालावस्थात्म-शुद्ध्य्-आदिकम् अपेक्षते ।
किन्तु स्वतन्त्रम् एवैतन् नाम कामित-कामदम् ॥ इति ।

विष्णु-धर्मे च—

कलौ कृत-युगं तस्य कलिस् तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ॥ इति ।

न च कलाव् अन्य-साधनासमर्थत्वाद् एव तेनाल्पेनापि महत् फलं भवति, न तु तस्य गरीयस्त्वेनेति मन्तव्यम् ।

यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गोऽपि यच्-चिन्तने
विघ्नो यत्र निवेशितात्म-मनसां ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमल-धियां पुंसां ददात्य् अव्ययः
किं चित्रं यद् अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ [वि।पु। ६.८.५७]

इति समाधि-पर्यन्ताद् अपि स्मरणात् कैमुत्येन कीर्तनस्यैव गरीयस्त्वं श्री-विष्णु-पुराणे दर्शितम् । अत एवोक्तम् एतन्-निर्विद्यमानानां [भा।पु। २.१.११] इत्य्-आदि । तथा च—

अघच्छित् स्मरणं विष्णोर् बह्व्-आयासेन साध्यते ।
ओष्ठ-स्पन्दन-मात्रेण कीर्तनं तु ततो वरम् ॥ इति वैष्णव-चिन्तामणौ ।
येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ इत्य् अन्यत्र ।

सर्वापराध-कृद् अपि इत्य्-आदि-नामापराध-भजन-स्तोत्रे च । तस्मात् सर्वत्रैव युगे श्रीमत्-कीर्तनस्य समानम् एव सामर्थ्यम् । कलौ च श्री-भगवता कृपया तद् ग्राह्यत1 इत्य् अपेक्षयैव तत्र तत्-प्रशंसेति स्थितम् ।अत एव यदन्यापि भक्तिः कलौ कर्तव्या, तदा तत्-संयोगेनैवेत्य् उक्तम्—यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः [भा।पु। ११.५.२९] इति । अत्र च स्वतन्त्रम् एव नाम-कीर्तनम् अत्यन्त-प्रशस्तम्—

हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ इत्य्-आदौ ।

तस्मात् साधूक्तं कलिं सभाजयन्त्य् आर्या गुणज्ञाः [भा।पु। ११.५.३] इत्य्-आदि-त्रयम् ॥

॥११.५॥ श्री-करभाजनो निमिम् ॥ २७१-२७३ ॥


  1. “कृपया तद् ग्राह्यते” इत्य् अत्र “तत् प्रथितं” इति ज-ग्रन्थस्य पाठान्तरम्। ↩︎