२७२

कीर्तनस्यैव महिमानम् आह—

न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ [भा।पु। ११.५.३७]

अतः कीर्तनात् । यतो यस्मात् कीर्तनात् । परमां शान्तिं, शमो मन्-निष्ठता बुद्धिः[११.१९.३६] इति भगवद्-वाक्यानुसारेण ध्यानादिभिर् अप्य् असाध्यां सर्वोत्कृष्टां भगवन्-निष्ठां प्राप्नोति । अनुषङ्गेण संसारश्नश्यति । अत एव ध्यान-निष्ठा अपि कृतादि-प्रजा एतादृशीं भगवन्-निष्ठां न प्राप्तवत्यः, महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम् इति स्कान्दाद्य्-अनुसारेण तादृश-निष्ठा-कारणं कीर्तन-माहात्म्यं च । दीनैक-कृपातिशय-शालिना भगवता तदानीं तत्-तत्-सामर्थ्यावसरे यस्मान् न प्रकाशितं, तस्माद् ध्यानादि-समर्थास् ताः प्रजा जिह्वौष्ठ-स्पन्दन-मात्रस्य नातिसाधनत्वं भवेद् इति मत्वा तन् न श्रद्धितवत्यश् च ॥