२७१

अत एव—

कलिं सभाजयन्त्य् आर्या गुण-ज्ञाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्व-स्वार्थोऽभिलभ्यते ॥ [भा।पु। ११.५.३६]

गुण-ज्ञाः कीर्तन-प्रचार-रूपं तद्-गुणं जानन्तः । अत एव तद्-दोषाग्रहणात् सार-भागिनः सार-मात्र-ग्रहणाः कलिंसभाजयन्ति । गुणम् एव दर्शयति—यत्र प्रचारितेन सङ्कीर्तनेनैव साधनान्तर-निरपेक्षेण तेनेत्य् अर्थः । सर्वो ध्यानादिभिः कृतादिषु साधन-सहस्रैः साध्यः ॥