२७०

इयं च कीर्तनाख्या भक्तिर् भगवतो द्रव्य-जाति-गुण-क्रियाभिर् दीन-जनैक-विषयापार-करुणा-मयीति श्रुति-पुराणादि-विश्रुतिः । कलौ च दीनत्वं, यथा ब्रह्म-वैवर्ते—

अतः कलौ तपो-योग-विद्या-याज्ञादिकाः क्रियाः ।
साङ्गाः भवन्ति न कृताः कुशलैर् अपि देहिभिः ॥ इति ।

अत एव कलौ स्वभावत एवातिदीनेषु लोकेष्व् आविर्भूय तान् अनायासेनैव तत्-तद्-युग-गत-महा-साधनानां सर्वम् एव फलं ददाना सा कृतार्थयति । यत एव तयैव कलौ भगवतो विशेषतश् च सन्तोषो भवति,

तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् ।
कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥

इति स्कान्द-चातुर्मास्य-माहात्म्य-वचनानुसारेण । तद् एवम् आह—

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भा।पु। १२.३.५२] इति ।

यद् यत् कृतादिषु तेन तेन साधनेन स्यात्, तत् सर्वं कलौहरि-कीर्तनाद् भवतीति । अन्यत्र च—

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ [वि।पु। ६.२.१७]इति ।

॥१२.३॥ श्री-शुकः ॥ २७० ॥