तथा—
मृषा गिरस् ता ह्य् असतीर् असत्-कथा
न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उ हैव मङ्गलं
तद् एव पुण्यं भगवद्-गुणोदयम् ॥ [भा।पु। १२.१२.४९] इत्य्-आदि,
यद् उत्तमःश्लोक-यशोऽनुगीयते [भा।पु। १२.१२.५०] इत्य् अन्तम् ।
असतीर् असत्यः । असतां भगवतस् तद्-भक्तेभ्यश् चान्येषां कथा यासु ताः । यद् यासु गीःषु न कथ्यते । उत्तमश्लोकस्य यशोऽनुगीयत इति तु यत्, तत् तदीय-लीला-मयानुगानम् एव सत्यम् इत्य्-आदि । कथं सत्यत्वं मङ्गलत्वं च ? तत्राह—भगवद्-गुणानाम् उदयो गायक-हृदि स्फूर्तिर् यस्मात् तत्, तदीय-रति-प्रदम् इत्य् अर्थः । स्कान्दे—
यत्र यत्र महीपाल वैष्णवी वर्तते कथा ।
तत्र तत्र हरिर् याति गौर् यथा सुत-वत्सला ॥
विष्णुधर्मे स्कान्दे च भगवद्-उक्तौ—
मत्-कथा-वाचकं नित्यं मत्-कथा-श्रवणे रतम् ।
मत्-कथा-प्रीति-मनसं नाहं त्यक्ष्यामि तं नरम् ॥ इति ।
अत्र च अनुगीयत इत्य् अनेन सुकण्ठता चेद् गानम् एव कर्तव्यं, तच् च प्रशस्तम् इत्य् आयातम्। एवं नामादीनाम् अपि । उक्तं च—
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः । [भा।पु। ११.२.३९] इति ।
अन्यत्र च—
यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः
कर्माण्य् अनन्य-विषयाणि हरिश् चकार ।
यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा
भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥ [भा।पु। १०.६९.४५] इति ।
गान-शक्त्य्-अभावे स्वस्माद् उत्कृष्टतरस्य प्राप्तौ वा तच् छृणोति । तदा शक्त्य्-अभावे तद् अनुमोदतेऽपीत्य् अर्थः । श्री-विष्णु-धर्मे श्री-विष्णूक्तौ—
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथा मम सत्-कथाः ॥ इति ।
पाद्मे च कार्त्तिक-माहात्म्ये श्री-भगवद्-उक्तौ—
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
तेषां पूजादिकं गन्ध-धूपाद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मम पूजनात् ॥ [प।पु। ६.९२.२१, २३]इति ।
ते च प्राणि-मात्राणाम् एव परमोपकर्तारः, किम् उत स्वेषाम् । यथोक्तं नारसिंहे श्री-प्रह्लादेन—
ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः ।
ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः ॥ इति ।
अत्र च बहुभिर् मिलित्वा कीर्तनं सङ्कीर्तनम् इत्य् उच्यते । तत् तु चमत्कार-विशेष-पोषात् पूर्वतोऽप्य् अधिकम् इति ज्ञेयम् । अत्र च नाम-सङ्कीर्तने यथोपदिष्टं कलि-युग-पावनावतारेण श्री-भगवता—
तृणाद् अपि सुनीचेन तरोर् अपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ [पद्या। ३२] इति ।
॥ १२.१२ ॥ श्री-सूतः ॥ २६९ ॥