२६७

अथ गुण-कीर्तनम्—

इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्ध-दत्तयोः ।
अविच्युतोऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥ [भा।पु। १.५.२२]

श्रुतं वेदाध्ययनम् । स्विष्टं यागादि । सूक्तं मन्त्रादि-जपः । बुद्धंशास्त्रीय-बोधः। दत्तं दानम् । एतेषां भगवद्-अर्पितानां सताम् एव अविच्युतोऽर्थः नित्यं फलम् । किं तत्? उत्तमश्लोकस्यगुणानुवर्णनं यत् । जातायाम् अपि गुणानुवर्णन-साध्यायां परम-पुरुषार्थ-रूपायां रतौ गुणानुवर्णनस्य प्रत्युत नित्य-नित्योल्लासाद् अविच्युतत्वम् उक्तम् । तस्माद् अविच्युतत्वेन रतिम् एवास्य फलं सूचयति ॥

॥ १.५ ॥ श्री-नारदः श्री-व्यासम् ॥ २६७ ॥