अथ श्री-रूप-कीर्तनम्—
प्रत्याक्रष्टुं नयनम् अबला इत्य्-आदौ—
यच् छ्रीर् वाचां जनयति रतिं कीर्त्यमाना कवीनाम् ॥ [भा।पु। ११.३०.३] इति ।
यस्य श्री-कृष्ण-रूपस्य शोभा-सम्पत्तिः कीर्त्यमाना सती कवीनां तत्-कीर्तकानां वाचां तत्-कीर्तनेष्व् एव रागं जनयति । अथोक्तं श्री-चतुःसनेन—कामं भवः सवृजिनैर् निरयेषु नः स्तात् [भा।पु। ३.१५.४९] इत्य्-आदौ, वाचश् च नस् तुलसिवद् यदि तेऽङ्घ्रि-शोभाः इति ।
॥ ११.३० ॥ राजा श्री-शुकम् ॥ २६६ ॥