२६५

अत एव प्रथम-स्कन्धान्त-स्थितानां राज्ञः श्रेयो-विविदिषा-वाक्यानाम् अनन्तरं द्वितीय-स्कन्धारम्भे सर्वोत्तमम् उत्तरं वक्तुम्—

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
अधीतवान् द्वापरादौ पितुर् द्वैपायनाद् अहम् ॥
परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।
गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥
तद् अहं तेऽभिधास्यामि महा-पौरुषिको भवान् ।
यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥ [भा।पु। २.१.८-१०]

इति श्री-भागवतस्य परम-महिमानम् उक्त्वा तद्-अनन्तरं श्री-भागवतम् उपक्रममाण एव तस्य नानाङ्गवतः श्री-भगवद्-उन्मुखतया तन्-नाम-कीर्तनम् एवोपदिशति । तत्रापि सर्वेषाम् एव परम-साधनत्वेन परम-साध्यत्वेन चोपदिशति—

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ [भा।पु। २.१.११]

टीका च—साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह—एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः ॥ इत्य् एषा ।

नाम-कीर्तनं चेदम् उच्चैर् एव प्रशस्तम्—नामान्य् अनन्तस्य हत-त्रपः पठन् [भा।पु।१.६.२७] इत्य्-आदौ ।

अथ पाद्मोक्ता दशाप्य् अपराधाः परित्याज्याः । यथा सनत्-कुमार-वाक्यम्—

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥[प।पु। ४.२५.१२-१३] इति ।

अपराधाश् चैते—

सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥
गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनम्
तथार्थ-वादो हरि-नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥
धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्य् अशृण्वति
यश् चोपदेशः शिव-नामापराधः ॥
श्रुत्वापि नाम-माहात्म्ये
यः प्रीति-रहितोऽधमः ।
अहं-ममादि-परमो
नाम्नि सोऽप्य् अपराध-कृत् ॥[प।पु। ४.२५.१५-१८] इति ।

अत्र सर्वापराध-कृद् अपि इत्य्-आदौ श्री-विष्णु-यामल-वाक्यम् अप्य् अनुसन्धेयम्—

मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् ।
तस्यापराध-कोटीस् तु क्षमाम्य् एव न संशयः ॥ इति ।

सतां निन्दा इत्य् अनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस् तु यथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे—

निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महा-रौरव-संज्ञिते ॥
हन्ति निन्दति वै द्वेष्टि वैष्णवान् नाभिनन्दति ।
क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति ।

तन्-निन्दा-श्रवणेऽपि दोष उक्तः—

निन्दां भगवतः शृण्वन् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥[भा।पु। १०.७४.४०] इति ।

_ततो_ऽपगमश् चासमर्थस्यैव । समर्थेन तु निन्दक-जिह्वा छेत्तव्या । तत्राप्य् असमर्थेनस्व-प्राण-परित्यागोऽपि कर्तव्यः । यथोक्तं देव्या—

कर्णौ पिधाय निरियाद् यद् अकल्प ईशे
धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने ।
जिह्वाम् प्रसह्य रुषतीम् असतीं प्रभुश् चेच्
छिन्द्याद् असून् अपि ततो विसृजेत् स धर्मः ॥ [भा।पु। ४.४.१७] इति ।

शिवस्य श्री-विष्णोर् इत्य् अत्रैवम् अनुसन्धेयम् । श्रूयतेऽपि—

यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजोऽंश-संभवम् ॥ [गीता १०.४१] इति ।

ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा।पु। १०.६८.२६] इति ।

यत्-पाद-निःसृत-सरित्-प्रवरोदकेन

तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत् [भा।पु। ३.२८.२२] इति ।
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ [भा।पु। २.६.३०]

तथा माध्व-भाष्य-दर्शितानि वचनानि ब्रह्माण्डे—

रुजं द्रावयते यस्माद् रुद्रस् तस्माज् जनार्दनः ।
ईशनाद् एव चेशानो महा-देवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसार-सागरात् ।
तद्-आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥
शिवः सुखात्मकत्वेन सर्व-संरोधनाद् धरः ।
कृत्त्यात्मकम् इमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास् ततो देवो विरिञ्चिश् च विरेचनात् ।
बृंहणाद् ब्रह्म-नामासौ ऐश्वर्याद् इन्द्र उच्यते ॥
एवं नाना-विधैः शब्दैर् एक एव त्रिविक्रमः ।
वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति ।

वामने—

न तु नारायणादीनां नाम्नाम् अन्यत्र संशयः ।
अन्य-नाम्नां गतिर् विष्णुर् एक एव प्रकीर्तितः ॥ इति ।

स्कान्दे—

ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
अदाद् अन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।

ब्राह्मे—

चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूर् इति।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेष्-नामानि ददौ स्वकीयान्य् अपि केशवः ॥ इति ।

तद् एवं श्री-विष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात् तस्मात् सकाशात् शिवस्य गुण-नामादिकंभिन्नं शक्त्य्-अन्तर-सिद्धम् इति यो धियापि पश्येद् इत्य् अर्थः । द्वयोर् अभेद-तात्पर्येण षष्ठ्य्-अन्तत्वे सति श्री-विष्णोश् चेत्य् अपेक्ष्य -शब्दः क्रियेत । तत्-प्राधान्य-विवक्षयैव श्री-शब्दश् च तत्रैव दत्तः । अत एव शिव-नामापराध इति शिव-शब्देन मुख्यतया श्री-विष्णुर् एव प्रतिपादित इत्य् अभिप्रेतम् । सहस्र-नामादौ च स्थाणु-शिवादि-शब्दास् तथैव ।

अथ श्रुति-शास्त्र-निन्दनम्—यथा पाषण्ड-मार्गेण दत्तात्रेय-र्षभ-देवोपासकानां पाषण्डिनाम् ।

तथा_अर्थ-वादः_ स्तुति-मात्रम् इदम् इति मननम् । कल्पनं तन्-माहात्म्य-गौणता-करणाय गत्य्-अन्तर-चिन्तनम् । यथोक्तं कौर्मे व्यास-गीतायां—

देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटि-गुणाधिकम् ॥ इति ।

यत् तु श्री-विष्णु-पार्षदेभ्यः श्रुत-नाम-माहात्म्यस्याप्य् अजामिलस्य सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे [भा।पु। ६.२.२९] इत्य् एतद् वाक्यं, तत् खलु स्व-दौरात्म्य-मात्र-दृष्ट्या । नाम-माहात्म्य-दृष्ट्या त्व् अग्रे वक्ष्यते, तथापि मे दुर्भगस्य [भा।पु। ६.२.३२-३३] इत्य्-आदि द्वयम् ।

नाम्नो बलाद् इति । यद्यपि भवेन् नाम्नो बलेनापि कृतस्य पापस्य तेन नाम्ना क्षयः, तथापि येन नाम्नो बलेन परम-पुरुषार्थ-स्वरूपं सच्-चिद्-आनन्द-सान्द्रं साक्षाच्-छ्री-भगवच्-चरणारविन्दं साधयितुं प्रवृत्तः, तेनैव परम-घृणास्पदं पाप-विषयं साधयतीति परम-दौरात्म्यम् । ततः कदर्थयत्य् एव तं तन् नाम चेति तत्-पाप-कोटि-महत्तमस्यापराधस्यापातो बाढम् एव । ततो यमैर् बहुभिर् यम-नियमादिभिः कृत-प्रायश्चित्तस्य क्रमेण प्राप्ताधिकारैर् अनेकैर् अपि दण्ड-धरैर् वा कृत-दण्डस्य तस्य शुद्ध्य्-अभावो युक्त एव । नामापराध-युक्तानाम् इत्य्-आदि वक्ष्यमाणानुसारेण पुनर् अपि सतत-नाम-कीर्तन-मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराध-कृदपि इत्य्-आद्य्-उक्त्य्-अनुसारेण नामापराध-युक्तस्य भगवद्-भक्तिमतोऽप्य् अधः-पात-लक्षण-भोग-नियमाच् च । तत इन्द्रस्याश्वमेधाख्य-भगवद्-यजन-बलेन वृत्र-हत्या-प्रवृत्तिस् तु लोकोपद्रव-शान्तिं तदीयासुर-भाव-खण्डनं चेच्छूनाम् ऋषीणाम् अङ्गीकृतत्वान् न दोष इति मन्तव्यम् ।

अथ धर्म-व्रत-त्यागः इति धर्मादिभिः साम्य-मननम् अपि प्रमादः, अपराधो भवतीत्य् अर्थः । अत एव च—

वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरि-नामानि कीर्तितानि न संशयः ॥

इत्य् अतिदेशेनापि नाम्न एव माहात्म्यम् आयाति । उक्तं हि—मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् इति ।

तथा श्री-विष्णु-धर्मे—

ऋग्-वेदो हि यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः ।
अधीतास् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥

स्कान्दे पार्वत्य्-उक्तौ—

मा ऋचो मा यजुस् तात मा साम पठ किञ्चन ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥

पाद्मे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे—

विष्णोर् एकैक-नामैव सर्व-वेदाधिकं मतम् [प।पु। ६.२५४.२७] इति ।

अथ अश्रद्दधाने इत्य्-आदिनोपदेष्टुर् अपराधं दर्शयित्वोपदेशस्याह—श्रुत्वेति । यतः अहं-ममादि-परमः अहन्ता-ममताद्य्-एक-तात्पर्येण तस्मिन्न् अनादरवान् इत्य् अर्थः । नामैकं यस्य वाचि स्मरण-पथ-गतम् [प।पु। ४.२५.२४, §१५३]इत्य्-आदौ देह-द्रविणादि-निमित्तक-पाषण्ड-शब्देनन् च दशापराधा लक्ष्यन्ते पाषण्ड-मयत्वात् तेषाम् । तथा तद्-विधानाम् एवापराधान्तरम् उक्तं पाद्म-वैशाख-माहात्म्ये—

अवमन्य प्रयान्ति ये भगवत्-कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [प।पु। ५.९६.६३] इति ।

एषां चापराधानाम् अनन्य-प्रायश्चित्तत्वम् एवोक्तं तत्रैव—

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।

अत्र सत्-प्रभृतिष्व् अपराधे तु तत्-सन्तोषार्थम् एव सन्तत-नाम-कीर्तनादिकं समुचितम् । अम्बरीष-चरितादौ तद्-एक-क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नाम-कौमुद्याम्—महद्-अपराधस्य भोग एव निवर्तकः तद्-अनुग्रहो वा इति । तस्माद् अगत्य्-अन्तराभावात् साधूक्तं एतन्निर्विद्यमानानाम् [भा।पु। २.१.११] इति ।

एवं श्री-नारदेनोक्तं बृहन्-नारदीये—

महिम्नाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वराः ।
मनवोऽपि मुनीन्द्राश् च कथं तं क्षुण्ण-धीर्1 भजे ॥ इति ॥

॥ २.१ ॥ श्री-शुकः ॥ २६५ ॥


  1. क्षुल्ल- (क, ख, ग, घ, ङ) ↩︎