अन्यत्र च—
न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्
तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।
यथा हरेर् नाम-पदैर् उदाहृतैस्
तद् उत्तमश्लोक-गुणोपलम्भकम् ॥ [भा।पु। ६.२.११]
न च पाप-विशोधन-मात्रेणापक्षीयते तन्-नाम-पदोदाहरणम्, किन्तु गुणानाम् अप्य् उपलम्भकम् अनुभव-हेतुर् भवति ॥
॥ ६.२ ॥ श्री-विष्णु-दूता यम-दूतान् ॥ २६४ ॥