२६३

फलं त्व् इदम् एव, यद् आह—

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्माद-वन् नृत्यति लोक-बाह्यः ॥ [भा।पु। ११.२.४०]

एवं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भा।पु। ११.२.३८] इत्य्-आद्य्-उक्त-प्रकारं व्रतं वृत्तं यस्य, तथाभूतोऽपि स्व-प्रियाणि स्वाभीष्टानि यानि नामानि, तेषां कीर्तनेन जातानुरागः । तत एव चित्त-द्रवाद् द्रुत-चित्तः । तत्रोचित-भाव-वैचित्रीभिर् हसति इत्य् आदि । अत्र तृतीयाश्रुत्या नाम-कीर्तनस्यैव साधकतमत्वं लब्धम् । तद् एवं एवं-व्रत इत्य् अत्रापि शब्दोऽप्य् अध्याहृतः ।

अत एव भक्तिः परेशानुभवो विरक्तिः [भा।पु। ११.२.४२] इत्य्-आद्य्-उत्तर-पद्ये टीका-चूर्णिका—नन्व् इयम् आरूढ-योगिनाम् अपि बहु-जन्मभिर् दुर्लभा गतिः कथं नाम-कीर्तन-मात्रेणैकास्मिन् जन्मनि भवेत् ? इत्य् आशङ्क्य स-दृष्टान्तम् आह—भक्तिर् इति ॥इत्य् एषा ।

इत्थम् उत्थापितं च श्री-भगवन्-नाम-कौमुद्यां सहस्र-नाम-भाष्ये च पुराणान्तर-वचनम्—

नक्तं दिवा च गत-भीर् जित-निद्र एको
निर्विण्ण ईक्षित-पथो मित-भुक् प्रशान्तः ।
यद्य् अच्युते भगवति समनो न सज्जेन्
नामानि तद्-रति-कराणि पठेद् विलज्जः ॥ इति ।

अत्र गत-भीर् इत्य्-आदयो गुणा नामैक-तत्परता-सम्पादनार्थाः, न तु कीर्तनाङ्ग-भूताः । भक्ति-मात्रस्य निरपेक्षत्वं, तस्य तु सुतरां तादृशत्वम् इति । यथा विष्णुधर्म-सर्व-पातकातिपातक-महापातक-कारि-द्वितीय-क्षत्र-बन्धूपाख्याने—

ब्राह्मण उवाच—
यद्य् एतद् अखिलं कर्तुं न शक्नोषि ब्रवीमि ते ।
स्वल्पम् अन्यन् मयोक्तं भो करिष्यति भवान् यदि ॥
क्षत्र-बन्धुर् उवाच—
अशक्यम् उक्तं भवता चञ्चलत्वाद् धि चेतसः ।
वाक्-शरीर-विनिष्पाद्यं यच् छक्यं तद् उदीरय ॥
ब्राह्मण उवाच—
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता ।
गोविन्देति सदा वाच्यं क्षुत्-तृट्-प्रस्खलितादिषु ॥ इति ।

॥ ११.३ ॥ श्री-कविर् विदेहम् ॥ २६३ ॥