अत्रैव विवेचनीयम्—श्री-भगवन्-नामादेः श्रवणं तावत् परमं श्रेयः । तत्रापि महद्-आविर्भावित-प्रबन्धादेः । तत्र महत्-कीर्त्यमानस्य । ततोऽपि श्री-भागवतस्य । तत्रापि च महत्-कीर्त्यमानस्येति । अत्र मूर्त्याभिमतयात्मनः[भा।पु। ११.३.४८] इतिवत् निजाभीष् ट-नामादि-श्रवणं तु मुहुर् आवर्तयितव्यम् । तत्रापि स-वासन-महानुभाव-मुखात् । सर्वस्य श्री-कृष्ण-नामादि-श्रवणं तु परम-भाग्याद् एव सम्पद्यते, तस्य पूर्ण-भगवत्त्वाद् इति । एवं कीर्तनादिष्व् अप्य् अनुसन्धेयम् । तत्र यत् स्वयं सम्प्रति कीर्त्यते, तद् अपि श्री-शुकदेवादि-महत्-कीर्तित-चरत्वेनानुसन्धाय कीर्तनीयम् इति ।
तद् एव श्रवणं दर्शितम् । अस्य च कीर्तनादितः पूर्वत्वं, तद् विना तत्-तद्-अज्ञानात् । विशेषतश् च यदि साक्षाद् एव महत्-कृतस्य कीर्तनस्य श्रवण-भाग्यं न सम्पद्यते, तदैव स्वयं पृथक्कीर्तनीयम् इति, तत्-प्राधान्यात् । अत एवोक्तं तद्-वाग्-विसर्गो जनताघ-विप्लवः [भा।पु। १.५.११, १२.१२.५२] इत्य्-आदौ । टीका-कृद्भिः—यद् यानि नामानि वक्तरि सति शृण्वन्ति, श्रोतरि सति गृणन्ति । अन्यदा तु स्वयम् एव गायन्ति॥इति ।
अथातः कीर्तनम् । तत्र पूर्ववन् नामादि-क्रमो ज्ञेयः । नाम्नो यथा—
सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् ।
नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥ [भा।पु। ६.२.१०]
टीका च—सुनिष्कृतं श्रेष्ठं प्रायश्चित्तम् इदम् एव । तत्र हेतुः—यतो नाम-व्याहरणात् तद्-विषया नामोच्चारक-पुरुष-विषया मदीयोऽयं मया सर्वतो रक्षणीय इति विष्णोर् मतिर् भवति ॥इत्य् एषा ।
अतः स्वाभाविक-तदीयावेश-हेतुत्वेन तदीय-स्वरूप-भूतत्वात् परम-भागवतानां तद्-एक-देश-श्रवणम् अपि प्रीतिकरम् । यथा पाद्मोत्तर-खण्डे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे श्री-शिव-वाक्यम्—
र-कारादीनि नामानि शृण्वतो देवि जायते ।
प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया ॥ [प।पु। ६.२५४.२१*] इति ।
तद् एवं सति, पाप-क्षय-मात्र-लक्षणं1 कियत् ? इति भावः ॥
॥ ६.२ ॥ श्री-विष्णुदूता यम-दूतान् ॥ २६२ ॥
-
-फलं (ङ, ज, य) ↩︎