तत्रापि श्रवणे श्री-भागवत-श्रवणं तु परम-श्रेष्ठम् । तस्य तादृश-प्रभावमय-शब्दात्मकत्वात् परम-रसमयत्वाच् च । तत्र पूर्वस्माद् यथा—
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः ।
सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥
[भा।पु।१.१.२] इति ।
महा-मुनिः सर्व-महन्-महनीय-चरण-पङ्कजः श्री-भगवान् । अत्र किं वा परैर् इत्य्-आदिना शब्द-स्वाभाविक-माहात्म्यं दर्शितम् ॥
॥ १.१ ॥ श्री-व्यासः ॥ २६० ॥