२५७

यथा वा, निगम-कल्प-तरोर् गलितं फलं शुक-मुखाद् अमृत-द्रव-संयुतम् [भा।पु। १.१.३] इत्य्-आदौ । अत्र श्री-शुक-मुखाद् अमृत-द्रव-संयुतत्वेन परम-सुखदत्वम् उक्तम् । एतद्-उपलक्षणत्वेन श्री-लीला-शुकाद्य्-आविर्भावित-कर्णामृतादि-ग्रन्था अपि क्रोडीकर्तव्याः । अथ महत्-कीर्त्यमानं, यथा—

स उत्तमश्लोक महन्-मुख-च्युतो
भवत्-पदाम्भोज-सुधा-कणानिलः ।
स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां
कुयोगिनां नो वितरत्य् अलं वरैः ॥ [भा।पु। ४.२०.२५]

न कामये नाथ तद् अपि [भा।पु। ४.२०.२१] इत्य्-आदि पूर्वोक्तानुसारात् स्व-सुखातिशयेन कैवल्य-सुख-तिरस्कारी महतां मुखाद् विगलितो भवत्-पादाम्भोज-माधुर्य-लेशस्यापि सम्बन्धी शब्दात्मकोऽ**निलोविस्मृत-**परम-तत्त्वात्मक-त्वदीय-ज्ञानानाम् अस्माकं त्वदीयां स्मृतिम् अपि यच्छति । तस्मात् तथा-विधस्य तस्य परम-साध्य-साधनात्मकत्वाद् अलम् अन्यैर् वरैर् इत्य् अर्थः ॥

॥ ४.२० ॥ पृथुः श्री-विष्णुम् ॥ २५७ ॥

[२५८-२५९ ]

तद् एव महा-माहात्म्यं महा-सुख-प्रदत्वं चोक्तम् । तद् एतद् उभयम् अप्य् अत्राह द्वाभ्याम्—

तस्मिन् महन्-मुखरिता मधुभिच्-
चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ [भा।पु। ४.२९.४०]

तस्मिन् साधु-सङ्गे । महद्भिर् मुखरिताः कीर्तिताः । शेषः सारः । अवितृषोऽलं-बुद्धि-शून्याः । गाढत्वं सावधानत्वम् । अशनं क्षुत् ।

एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः ।
न करोति हरेर् नूनं कथामृत-निधौ रतिम् ॥ [भा।पु। ४.२९.४१]

यैर् एतैर् अशनादिभिर् उपद्रुतः सन् कथामृत-निधौ रतिं न करोति, तान् एतान् महत्-कीर्त्यमानानि भगवद्-यशांसि स्व-माहात्म्येन दूरीकृत्य स्व-सुखम् अनुभावयन्तीति पद्य-द्वय-योजनार्थः ॥

॥ ४.२९ ॥ श्री-नारदः प्राचीनबर्हिषम् ॥ २५८-२५९ ॥