२५६

तद् एवं नामादि-श्रवणम् उक्तम् । अत्र तत्-परिकर-श्रवणम् अपि ज्ञेयम्—

श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम् ॥ [भा।पु। ३.१३.४] इत्य्-आदौ ।

तत्र यद्यप्य् एकतरेणापि व्युत्क्रमेणापि सिद्धिर् भवत्य् एव, तथापि प्रथमं नाम्नः श्रवणम् अन्तःकरण-शुद्ध्य्-अर्थम् अपेक्ष्यम् । शुद्धे चान्तःकरणे रूप-श्रवणेन तद्-उदय-योग्यता भवति । सम्यग्-उदिते च रूपे गुणानां स्फुरणं सम्पद्यते । ततस् तेषु नाम-रूप-गुणेषु तत्-परिकरेषु च सम्यक् स्फुरितेष्व् एव लीलानां स्फुरणं सुष्ठु भवतीत्य् अभिप्रेत्य साधन-क्रमो लिखितः । एवं कीर्तन-स्मरणयोश् च ज्ञेयम् ।

इदं च श्रवणं श्रीमन्-महन्-मुखरितं चेन् महा-माहात्म्यं, जात-रुचीनां परम-सुखदं च । तच् च द्विविधं—महद्-आविर्भावितं महत्-कीर्त्यमानं चेति । तत्र श्री-भागवतम् उपलक्ष्य पूर्वं यथा—

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ॥ [भा।पु। १.३.४०]

अत्र तन्-माहात्म्य-सूचनार्थम् एव तत्-कर्तृकत्व-वचनम् ॥

॥ १.३ ॥ श्री-सूतः ॥ २५६ ॥