२५५

एवं दुरवगमात्म-तत्त्व-निगमाय [भा।पु। १०.८७.१७] इत्य्-आदौ वेद-स्तुताव् अपि तच्-छ्लाघा द्रष्टव्या । अत एव प्रथमे भावयत्य् एषः [भा।पु। १.२.३३] इत्य्-आदौ, लीलावतारानुरतः [भा।पु। १.२.३३] इति तद्-विशेषणं दत्तम् । तथा च श्री-भगवद्-गीतासु—

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सोऽर्जुन ॥ [गीता ४.९] इति ।

एषा खलु मर्त्य-शरीरम् अपि पार्षद-भावेन जित-मृत्युकं विदधाति । यद् आह—

साधु वीर त्वया पृष्टम् अवतार-कथां हरेः ।
यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् ॥
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥
[भा।पु। ३.१४.५-६]

मुनिना श्री-नारदेन । अतस् तेन भगवद्-अवतार-कथापि तं प्रति श्रावितास्तीति गम्यते । तेन शरीरेणैव मृत्यु-जयः पार्षदत्वं चोक्तम्—

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च ।
इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ [भा।पु। ४.१२.२९] इति ।

॥ ३.१४ ॥ श्री-मैत्रेयः ॥ २५५ ॥