किं बहुना, एतद्-अर्थम् एवास्य महा-पुराणाविर्भाव इति भवतानुदित-प्रायं यशो भगवतोऽमलम् [भा।पु। १.५.८] इत्य्-आदौ, समाधिनानुस्मर तद्-विचेष्टितम् [भा।पु। १.५.१६] इत्य्-आदौ च वर्णितम् ।सा च लीला द्विविधा—सृष्ट्य्-आदि-रूपा लीलावतार-विनोद-रूपा च । तयोर् उत्तरा तु प्रशस्ततरेत्य् आशयेनाह—
प्राधान्यतो यान् ऋष आमनन्ति
लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्ण-कषाय-शोषान्
अनुक्रमिष्ये त इमान् सुपेशान् ॥ [भा।पु। २.६.४६]
यद्यपि पूर्वम् आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४०] इत्य्-आदि-ग्रन्थेन पुरुषं कालादि-तच्-छक्तिं मन-आदि-तत्-कार्यं, ब्रह्मादि-तद्-गुणावतारान्, दक्षादि-तत्-तद्-विभूतींश् चोक्तवान् अस्मि, तेन च सृष्ट्य्-आदि-लीलाः, तथापि यान् हे ऋषेपुरुषस्य भूम्नोलीलावतारान् प्राधान्येन आमनन्ति, तान् एव इमान् मम हृदयाधिरूढान् कर्ण-कषाय-शोषान् तद्-इतर-श्रवण-राग-हन्तॄन् । किं च, सुपेशान् परम-मनोहरान् अनुक्रमिष्ये । तद्-अनुक्रमेण आ सम्यक् पीयताम् ॥
॥ २.६ ॥ श्री-ब्रह्मा नारदम् ॥ २५४॥