२५३

अथ लीला-श्रवणम्—

ज्ञानं यद् आ प्रतिनिवृत्त-गुणोर्मि-चक्रम्
आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ [भा।पु। २.३.१२]

यत् यासु कथासुज्ञानं भवति । कीदृशं ? सर्वतः प्रतिनिवृत्तं उपरतं गुणोर्मीणां रागादीनां चक्रं समूहो यस्मात् । यतो यत्र यासु कथासु तद्-धेतुर् आत्म-प्रसादश् च तत्-प्रसाद-हेतुर् विषयानासक्तिश् च । किं बहुना ? तत् फलं यत् कैवल्यं, तद् अपि ब्रह्म-भूतः प्रसन्नात्मा[गीता १८.५४] इत्य्-आद्य्-उक्तानुसारेण सम्मतः पन्थाः प्राप्ति-द्वारं, यत्र स प्रेमाख्यो भक्ति-योगोऽपि । यासु श्रुत-मात्रासु तत्तदनपेक्ष्यैव भवति, तासु हरि-कथासु तच्-चरितेषु कः श्रवण-सुखेन निर्वृतः सन् अन्यत्रानिर्वृतो वा रतिं रागं न कुर्यात्? ॥

॥ २.३ ॥ श्री-शुकः ॥ २५३ ॥