व्यतिरेकेण च—
निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-ऽभिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ [भा।पु। १०.१.४]
निवृत्त- इत्य्-आदि-विशेषण-त्रयेण मुक्त-मुमुक्षु-विषयि-जनानां ग्रहणम् । पशुघ्नो व्याधः । तस्य हि—
राज-पुत्र चिरं जीव मा जीव मुनि-पुत्रक ।
जीव वा मर वा साधो व्याधो मा जीव मा मर ॥
इति न्यायेन विषय-सुखेऽपि तात्पर्यं नास्ति ।न च तद्-अभिज्ञत्वम् अस्ति, विशेषतस् तु कथा-रस-ज्ञाने परम-मूढत्वात्1 सामर्थ्यं नास्त्य् एव । यद् वा, दैत्य-स्वभावस्य यस्य निन्दा-मात्र-तात्पर्यं, स एव हिंसकत्वेन पश्यघ्न-शब्देनोच्यते । पशुघ्नो व्याधः । सोऽपि मृगादीनां सौन्दर्यादिक-गुणम् अगणयन्न् एव हिंसा-मात्र-तत्पर इति । ततो रस-ग्रहणाभावाद् युक्तम् उक्तं विना पशुघ्नाद् इति । उभयथापि तद्-बहिर्मुखेभ्यो गालि-प्रदान एव तात्पर्यम् । यथा तृतीये श्री-मैत्रेयस्य—
को नाम लोके पुरुषार्थ-सारवित्
पुरा-कथानां भगवत्-कथा-सुधाम् ।
आपीय कर्णाञ्जलिभिर् भवापहाम्
अहो विरज्येत विना नरेतरम् ॥ [भा।पु। ३.१३.५१] इति ।
॥ १०.१ ॥ राजा श्री-शुकम् ॥ २५२ ॥
-
गूढत्वात् ↩︎