२५१

किं च—

यत्रोत्तमश्लोक-गुणानुवादः
प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्
मतिं सतीं यच्छति वासुदेवे ॥ [भा।पु। ५.१२.१३]

मुमुक्षोर् अपि, किं पुनर् भक्ति-मात्रेच्छोः ?सतीं मुमुक्षाद्य्-अन्य-कामना-रहिताम्, तद्-अन्या तु व्यभिचारिणीति भावः ॥

॥ ५.१२ ॥ श्री-ब्राह्मणो रहूगणम् ॥ २५१ ॥