२५०

अथ गुण-श्रवणम्

कथा इमास् ते कथिता महात्मनां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो
वचो-विभूतीर् न तु पारमार्थ्यम् ॥
यस् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा।पु। १२.३.१४-१५]

टीका च—राज-वंशानुकीर्तनस्य तात्पर्यम् आह—कथा इमा इति । विज्ञानं विषयासारता-ज्ञानम् । ततो वैराग्यम् । तयोर् विवक्षयापरेयुषां मृतानां वचो-विभूतीर् वाग्-विलास-मात्र-रूपाः । पारमार्थ्यं परमार्थ-युक्तं कथनं न भवतीत्य् अर्थः । कस् तर्हि पुरुषाणाम् उपादेयः परमार्थः ? तम् आह—यस् त्व् इति । नित्यं प्रत्यहम् । तत्राप्य् अभीक्ष्णम्॥ इत्य् एषा ।

अत्र यत् क्वचिच् छ्री-राम-लक्ष्मणादयोऽपि तेषां राज्ञां मध्ये वैराग्यार्थं छत्रि-न्यायेन पठ्यन्ते, तन् निरस्यते । अतो यद्यपि निगम-कल्प-तरोः [भा।पु। १.१.३] इत्य्-आद्य्-अनुसारेण सर्वस्यैव प्रसङ्गस्य रस-रूपत्वं, तथापि क्वचित् साक्षाद्-भक्ति-मय-शान्तादि-रस-रूपत्वं, क्वचित् तद्-उपकरण-शान्तादि-रस-रूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र भक्ति-रसेष्व् अपि तारतम्यम् इति । गुणाः कारुण्यादयः । तद्-गुण-कीर्तिः स्वभाव एवासाव् इति श्री-गीतास्व् अपि दृष्टम्—स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च [गीता ११.३६] इत्य्-आदौ ।

अत्र महा-भागवतानाम् अपि भगवत इव गुण-श्रवणं मतम्—

तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भा।पु। १.१६.६]

इति शौनकोक्तेः । यद्यप्य् अत्र गुण-शब्देन रूप-लीलयोर् अपि सौष्ठवं गृह्यते, तथापि तत्-प्राधान्य-निर्देशात् पृथग्-ग्रहणम् । एवम् उत्तरत्रापि ज्ञेयम् । भक्तिं प्रेमाणम् । अमलां कैवल्यादीच्छा-रहिताम् ॥

॥ १२.३ ॥ श्री-शुकः ॥ २५० ॥