२४९

अथ रूप-श्रवणम्

ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं
जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् ।
भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भा।पु। ३.९.५]

तु-शब्दो यो नादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः [भा।पु। ३.९.४] इति पूर्वोक्त-निन्दितानां भगवद्-रूपानादरवतां प्रतियोग्य्-अर्थ-निर्देशे निर्दिष्टः । अनेन येऽत्र एतद्-विरोधिनो भवन्ति, त एव पूर्वोक्ता असत्-प्रसङ्गा इति गम्यते । चरण-मात्र-निर्देशो भक्त्य्-अतिशयेन । गन्धं वर्णाकारादि-माधुर्यं कर्ण-विवरैर् जिघ्रन्ति, नासा-विवरैः परमामोदम् इव तैर् आस्वादयन्तीत्य् अर्थः । श्रुतिर् वेदस् तद्-अनुगामि-शब्दान्तरं च । सैव वातः, तेन प्रापितम् । ततः परया च भक्त्या प्रेम-लक्षणया गृहीत-चरणस् त्वं नापयातुं शक्नोषि॥

॥ ३.९ ॥ ब्रह्मा श्री-गर्भोदशायिनम् ॥ २४९ ॥