अथ क्रम-प्राप्तं श्रवणम् । तच् च नाम-रूप-गुण-लीला-मय-शब्दानां श्रोत्र-स्पर्शः । तत्र नाम-श्रवणं, यथा—
न हि भगवन्न् अघटितम् इदं
त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ [भा।पु। ६.१६.४४]
तादृशस्यापि सकृच्-छ्रवणेऽपि मुक्ति-फल-प्राप्तेर् उत्तमस्य तच्-छ्रवणे तु परम-भक्तिर् एव फलम् इत्य् अभिप्रेतम् ॥
॥ ६.१६ ॥ चित्रकेतुः श्री-सङ्कर्षणम् ॥ २४८ ॥