२४७

वैष्णव-मात्राणां च यथायोग्यम् आराधनं यथा इतिहास-समुच्चये—

तस्माद् विष्णु-प्रसादाय वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस् तेनैव स्यान् न संशयः ॥ इति ।

व्यतिरेकेणापि पाद्मोत्तर-खण्डे—

अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः ।
न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ [६.२५३.१७७]इति ।

तत्र—

सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।
अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ [भा।पु। ४.२१.१२]

इति श्री-पृथु-चरितानुसारेण यत् किञ्चिज् जाताव् अप्य् उत्तमत्वम् एव मन्तव्यम्,

यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ [भा।पु। ७.११.३५]

इति नारदोक्ति-दृष्टान्तेन वा । यथोक्तं पाद्मे—

किम् अत्र बहुनोक्तेन ब्राह्मणा येऽप्य् अवैष्णवाः ।
न द्रष्टव्या न स्प्रष्टव्या न वक्तव्याः कदाचन ॥1

माघ-माहात्म्ये—

श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् ।
वैष्णवो वर्ण-बाह्योऽपि पुनाति भुवन-त्रयम् ॥
न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः ।
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥

इतिहास-समुच्चये—

स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम ।
पुनाति भगवद्-भक्तश् चाण्डालोऽपि यदृच्छया ॥

अन्यथा दोष-श्रवणं च तत्रैव—

शूद्रं वा भगवद्-भक्तं निषादं श्वपचं तथा ।
वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ इति ।

भक्ति-वैशिष्ट्येन तु वैशिष्ट्यम् अपि दृश्यते । यथा गारुडे—

मद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
मत्-कथा-श्रवणे प्रीतिः स्वर-नेत्रादि-विक्रिया ॥
विष्णोश् च कारणं नृत्यं तद्-अर्थे दम्भ-वर्जनम् ।
स्वयम् अभ्यर्चनं चैव यो विष्णुं नोपजीवति ॥
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनि-श्रेष्ठः स ज्ञानी स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ इति ।

अत एवाह भगवान्—

न मे भक्तश् चतुर्-वेदी मद्-भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्य् अहम् ॥ इति ।

अत एव ज्ञात-भक्ति-महिम्ना2 सता दुर्वाससापि श्रीमद्-अम्बरीषस्य पाद-ग्रहणम् अप्य् आचरितम् । किन्तु अम्बरीषस्यानभीष्टम् एव तद् इति तत्रैव व्यक्तत्वात् । श्री-भगवता श्रीमद्-उद्धवादिभिश् च ब्राह्मण-मात्रस्य वन्दनाच् च, इतर-वैष्णवैस् तु तत् सर्वथा न मन्तव्यम् ।

विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः ॥ [भा।पु। १०.६४.४१]

इति भगवद्-आदेश-भङ्ग-प्रसङ्गाच् च । श्वपाकम् इव नेक्षेत इत्य्-आदिकं तु तद्-दर्शनासक्ति-निषेध-परत्वेन समाधेयम् । दृश्यते च युधिष्ठिर-द्रौपद्य्-आदीनाम् अश्वत्थाम्नि तथा व्यवहारः । वैष्णव-पूजकैस् तु वैष्णवानाम् आचारोऽपि न विचारणीयः, अपि चेत् सुदुराचारः [गीता ९.३०] इत्य्-आदेः । यथोक्तं गारुडे—

विष्णु-भक्ति-समायुक्तो मिथ्याचारोऽप्य् अनाश्रमी ।
पुनाति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥ इति ।

तद् एतद् उदाहृतम् एव—अहो बत श्वपचोऽतो गरीयान् यज् जिह्वाग्रे वर्तते नाम तुभ्यम् [भा।पु। ३.३३.७] इत्य्-आदौ । अत्र श्वपच-शब्दो यौगिकार्थ-पुरस्कारेणैव वर्तते । ततो दुर्जातित्वेन दुराचारत्वेनापि नावमन्तव्यस् तद्-भक्त-जनः, स्वावमन्तृत्वेन तु सुतराम् । अत एवोक्तं गारुडे—

रुक्षाक्षरं तु शृण्वन् वै तथा भागवतेरितम् ।
प्रणाम-पर्वं तं क्षान्त्या यो वदेद् वैष्णवो हि सः ॥ इति ।

तद् एवं महद्-आदि-सेवा दर्शिता । अस्याश् च श्रवणादितः पूर्वत्वं, महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् [भा।पु। ५.५.२] इत्य् उक्तेः । तेभ्यो महद्भ्यस् त्व् अन्यद् अपि किम् अपि परम-मङ्गलायनं जायते । यथा—

तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः ।
सम्भवन्ति हि ता नृणां जुषतां प्रपुनन्त्य् अघम् ॥
ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः ।
मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥
भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते ।
मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि ॥
यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमोऽप्येति साधून् संसेवतस् तथा ॥ [भा।पु। ११.२६.२८-३१]

तेषु सन्तोऽनपेक्षा मच्-चित्ताः [भा।पु। ११.२६.२७] इत्य्-आद्य्-उक्त-लक्षणेषु । भक्तिं प्रेम । अत एवोक्तं श्री-रुद्रेण—

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। ४.२४.५७] इति ।

श्री-शौनकेनापि, तुलयाम लवेनापि न स्वर्गम् [भा।पु। १.१८.१३]इत्य्-आदि पूर्ववत् । तत्रानुषङ्गिकं फलं स-दृष्टान्तम् आह—यथेति । विभावसुम् अग्निम् । उपास्य-बुद्ध्या श्रयमानस्य होमाद्य्-अर्थं ज्वालयत इत्य् अर्थः । तस्य यथा शीतादिकम् अप्य् एतिभयं दुष्ट-जीवादि-कृतम्, तथा साधून् सेवमानस्य कर्मादि-जाड्यम् । आगामि संसार-भयं तन्-मूलम् अज्ञानं च नश्यतीत्य् अर्थः ॥

॥ ११.२६ ॥ श्री-भगवान् ॥ २४७ ॥


  1. अयं श्लोकः झ-ग्रन्थे उपलभ्यते, नान्यत्र। ↩︎

  2. ज्ञान- (छ, झ, ञ), नोथिन्ग् (य) ↩︎