अथ महाभागवत-सेवा-सिद्ध-लक्षणम्—
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं
ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः ।
ये त्व् अब्ज-नाभ भवदीय-पदारविन्द-
सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ [भा।पु। ४.९.१२]
परम-प्रियम् अपि मर्त्यं वपुः । ये चादो वपुर् अनुलक्षीकृत्य सुतादयो वर्तन्ते, तान् अपि न स्मरन्ति । के ते ? इत्य् अपेक्षायाम् आह—ये त्व् इति ॥
॥ ४.९ ॥ ध्रुवः श्री-ध्रुव-प्रियम् ॥ २४६ ॥