२४५

व्यतिरेकेणाह—

यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज्
जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ [भा।पु। १०.८४.१३]

जडत्वात् कुणपे स्वयं मृत-तुल्ये शरीरे । चिद्-योगेऽपि त्रिभिर् वात-पित्तादिभिर् दूषित इत्य् अर्थः । भौमे देवता-प्रतिमादौ । यत् यस्य । अभिज्ञेषु तत्त्ववित्सु ता बुद्धयो न सन्ति । तत्र आत्म-बुद्धिः परम-प्रीत्यास्पदत्वम् । स एव गोखरो गो-निकृष्ट उच्यते । यद् वा, सिन्धु-सौवीर-प्रसिद्धो वन्य-गर्दभ-जाति-विशेषो म्लेच्छ-जाति-विशेषो वा सः, न त्व् अन्यः प्रसिद्धः । विवेकित्वाभिमानितायां सत्याम् अप्य् अविवेकित्वात् ततोऽपि निकृष्टत्वं तस्येति । भौम इज्य-धीर् इति साधारण-देवता-विषयकम् एव, पूर्वं तथैवोपक्रान्तत्वात् । अर्चायाम् एव हरये [भा।पु। ११.२.४५] इत्य्-आदि-विरोधाच् च । तद् एवं, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य्-आदि-वाक्यम् अत्र नावतारयितव्यम् ॥1

॥ १०.८४ ॥ भगवान् मुनि-वृन्दम् ॥ २४५ ॥


  1. इत्य् अस्मात् परम्—“देवतान्तर-पूजनवत् साधु-पूजनं न त्याज्यम् इत्य् आशयः । भगवत्-सेवनेन देवतान्तर-पूजनं सिध्यति, न तु साधु-पूजनम् ।” इत्य् अतिरिक्त-पाठः क-करलिपितः प्राप्तः। प् ↩︎