तद् एवं महा-भागवत-प्रसङ्ग-फलम् उक्तम् । तत्-परिचर्या-फलम् आह—
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ [भा।पु। ३.७.१९]
येषां युष्माकं महा-भागवतानां सेवया परिचर्यया कूटस्थस्य नित्यस्य भगवतःपादयो रति-रासः प्रेमोत्सवो भवेत् । तीव्र इति विशेषणं प्रसङ्ग-मात्रात् परिचर्यायां विशिष्टं फलं द्योतयति । आनुषङ्गिकं फलम् आह—व्यसनार्दन इति । व्यसनं संसारः। यत एवोक्तं मद्-भक्त-पूजाभ्यधिका [भा।पु। ११.१९.१९] इति । _मम पूजातो_ऽप्य् अभि सर्वतो-भावेनाधिका अधिक-मत्-प्रीति-करीत्य् अर्थः ।एवं पाद्मोत्तर-खण्डे—
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ [प।पु। ६.२५३.१७६] इति ॥
॥ ३.७ ॥ विदुरः श्री-मैत्रेयम् ॥ २४४ ॥