२४३

एष च1 सत्-सङ्गो ज्ञानं विनापि कृतोऽर्थद एव स्याद् इत्य् आह—

सङ्गो यः संसृतेर् हेतुर् असत्सु विहितोऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय**2 कल्पते ॥** [भा।पु। ३.२३.५५]

अधिया अज्ञानेन । यत् तु पूर्वं श्री-नारदादौ मुन्य्-अन्तर-साधारण-दृष्टिर् निन्दिता, तद् इहास्निग्धे ज्ञान-लव-दुर्विदग्धे च ज्ञेयम् ॥

॥ ३.२३ ॥ श्री-देवहूतिः ॥ २४३ ॥


  1. एवं च (ख, ग, च) ↩︎

  2. निःसङ्गायैव (छ, ञ) ↩︎