२४२

ताम् एव व्यनक्ति—

यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [११.१२.९]

यं भावम् । अत्रापि योगादयो भगवत्-परा एव, योगादिभिर् यत्नवानपि इत्य् अनेन तत्-प्राप्त्य्-अर्थं प्रयुज्यमानत्वावगमात् । एष्व् अपि श्री-गोपीनां परमकाष्ठा-प्राप्तिं दर्शयितुम्—अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दनः[भा।पु। ११.११.४९] इत्य् एतत्-पूर्वोक्त-परम-गुह्यत्वस्य परम-काष्ठां दर्शयितुं रामेण सार्धं [भा।पु। ११.१२.९]इत्य्-आदि-प्रकरणम् अनुसन्धेयम् ॥

॥ ११.१२ ॥ श्री-भगवान् ॥ २३८-२४२ ॥