अथ मुख्यं वशीकरणम् असम्भावित-साधनान्तरेण सत्-सङ्ग-मात्रेण श्री-गोप्य्-आदीनां दर्शयति—
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ [भा।पु। ११.१२.८]
भावेन प्रकरण-प्राप्त-मत्-सङ्ग-मात्र-जन्मना प्रीत्या । भावोऽत्र वशीकार-मुख्यत्वे चिह्नम्, वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा [भा।पु। ९.४.४८] इत्य्-आदेः, भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२०] इत्य्-आदेश् च । गावोऽपि गोपीवद् आगन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः । मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुन-कालिययोः प्राप्तिस् तदानीन्तन-तत्-क्षणिक-भगवत्-प्राप्त्य्-आवश्यम्भावि-नित्य-प्राप्तिम् अपेक्ष्योक्ता । सिद्धाः पूर्ववद् द्विविधात् सत्-सङ्गात् । स तु तेषां भावो योगादिभिर् अप्राप्य एवेति, यथावरुन्धे [भा।पु। ११.१२.२] इत्य् अत्र यथा-शब्दार्थस्य पराकाष्ठा ॥