२४०

तेषां सत्-सङ्ग-व्यतिरिक्त-साधनाभावम् आह—

ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसो मत्-सङ्गान्**1 माम् उपागताः ॥** [भा।पु। ११.१२.७]

नाधीताः श्रुति-गणाः यैः । तद्-अर्थं च नोपासितामहत्तमा यैः । किं च, अकृत-व्रता अकृत-तपस्काश् च । पूर्ववद् अध्ययनादिकं भगवत्-प्रीणनम् एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्-जन्मादौ साधनानन्तरं यत्, तद् अपि सत्-सङ्गानुषङ्ग-सिद्धम् इत्य् अभिप्रेत्य सत्-सङ्गस्यैव तत्-तत्-फलम् उक्तम् । धर्म-व्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् ।

मत्-सङ्ग-शब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्य् अभिधाप्यते । उभयत्रापि मत्-सम्बन्धित्वादित्य् अभिप्रायेण । तत्र स्वस्यापि सत्त्वात् सत्-सङ्गोऽप्य् अन्तर्-भावितः । यत् तु पुरा भागवत-सङ्गेनैव भगवत्-कृपा भवतीत्य् उक्तं, तत् तु तत्-साम्मुख्य-जन्मन्य् एव । अत्र तु स एव भागवत-सङ्गः साधन-विशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित् साम्मुख्य-जन्म-कारणम् अपि भगवत्-सङ्गो भवेत्, तदाप्य् एवम् आचक्ष्महे—सच्-छब्दार्थम् अवतारम् अङ्गीकृत्य यत् कदाचित् सर्वत्र कृपां वितनोति भगवान्, तच् च सत्-सम्बन्धेनैवेत्य् अतो नाभ्युपगम-हानिर् इति ॥


  1. सत्-सङ्गाद् इति पाठः गीत-प्रेस-संस्करणे। (झ, य) ↩︎