अथ प्रस्तुतम् अनुसरामः । वशीकरणम् अत्र द्विविधम्—मुख्यं गौणं च । तत्र मुख्येन प्रेम लभ्यते ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इति न्यायेन ।
अत एव गौणेनान्यत् फलम् । अत्र मुख्यं श्री-गोप्यादौ । गौणं बाणादौ । उत्तरत्र वशीकरणत्वं फल-दानोन्मुखीकरणतयोपचर्यते । तद् एतद् वशीकरणे दृष्टान्तम् आह—
सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्-तमः-प्रकृतयस् तस्मिंस् तस्मिन् युगे युगे ॥
बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः ।
वृष-पर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ [भा।पु। ११.१२.३-६]
दैतेयास् तद्-उपलक्षितासुर-दानवाश् च । यातुधाना राक्षसाः । तत्-तज्-जातिषु दिग्-दर्शनं—त्वाष्ट्रेत्य्-आदि । त्वाष्ट्रो वृत्रासुरः । वृतासुरस्य सत्-सङ्गः प्राग्-जन्मनि श्री-नारदाङ्गिरसोः सङ्गः श्री-सङ्कर्षण-सङ्गश् च प्रसिद्धः ।
कायाधवः कयाधु-पुत्रः प्रह्लादः । अस्य गर्भे श्री-नारद-सङ्गः ।
आदि-शब्द-गृहीतान् पूर्वोक्त-जाति-क्रमेण कतिचिद् गणयति—वृषेति । वृषपर्वा दानवः । अयं हि जात-मात्र-मातृ-परित्यक्तो मुनि-पालितो विष्णु-भक्तो बभूवेति पुराणान्तर-प्रसिद्धिः । बलेः श्री-प्रह्लाद-सङ्गः श्री-वामन-सङ्गश् च, तद्-अनन्तरम् एव भक्त्य्-उद्बोध-दर्शनात्। बाणस्य बलि-महेश-भगवत्-सङ्गः । अस्य भुज-कर्तनानन्तरं ज्ञात-विष्णु-महिम्नो महा-भागवत-महेश-प्राप्तिर् इव स्व-प्राप्तिर् इत्य् उच्यते । मयो दानवः । अस्य सभा-निर्माणादौ पाण्डव-सङ्गो भगवत्-सङ्गश् च, अन्ते तत्-प्राप्तिस् तु ज्ञेया । विभीषणो यातुधानः, अस्य हनूमत्-सङ्गो भगवत्-सङ्गश् च ।
सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान्, अस्य भगवत्-सङ्गः । गजो गजेन्द्रः, अस्य पूर्व-जन्मनि सत्-सङ्ग उन्नेयः, उत्तर-जन्मान्ते भगवत्-सङ्गश् च । गृध्रो जटायु-नामा खगः, अस्य श्री-गरुड-दशरथादि-सङ्गः, श्री-सीता-दर्शनं श्री-भगवद्-दर्शनं च ।
गन्धर्वादीस् त्व् अनतिप्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन् उदाहरति । वणिक्-पथस् तुलाधारः, अस्य भारते जाजलि-मुनि-गन्धर्व-प्रसङ्गे प्रोक्त-महिम्नः सत्-सङ्गः अन्वेषणीयः ।
व्याधो धर्म-व्याधः शूद्रोऽन्त्यजोऽपि । अत्रादिवाराहे कथेयम्—क्वचित् प्राचीन-कलि-युगे वसु-नाम्ना वैष्णवेन राज्ञा प्राग्-जन्मनि मृग-भ्रान्त्या निहतो ब्राह्मणो ब्रह्म-राक्षसतां प्राप्तः । तस्य राज्ञः प्रापञ्चिक-विष्णु-लोक-गमन-समये तच्-छरीरं प्रविष्टः । पुनश् च तस्य तद्-भोगान्ते राजतां प्राप्तस्य देहात् तत्-कर्तृक-ब्रह्म-पाराख्य-स्तव-पाठ-तेजसा निर्गतः, तत्-कृत-धर्म-व्याध-संज्ञो हिंसातिशय-विमुखः पर्यवसाने दृष्ट-नीलाद्रि-नाथः, तं च स्तुतवान् । प्राप्त-तद्-आलिङ्गनस् तत्-सायुज्यम् अवापेति।
कुब्जाया भगवत्-सङ्गः, पूर्व-जन्मनि च नारद-सङ्ग इति माथुर-हरि-वंश-प्रसिद्धम्। गोप्योऽत्र साधारण्यः, श्री-कृष्ण-व्रजे तदानीं विवाहादिना समागताः । आसां तन्-नित्य-प्रेयसी-वृन्द-सङ्गः श्री-कृष्ण-दर्शनादि-रूपो भगवत्-सङ्गश् च । यज्ञ-पत्नीनां श्री-कृष्ण-गुण-कथक-लोक-सङ्गस् तत्-सङ्गश् च । अपरे दैतेयादयोऽन्ये च ॥