श्री-गुर्व्-आज्ञया तत्-सेवनाविरोधेन चान्येषाम् अपि वैष्णवानां सेवनं1 श्रेयः । अन्यथा दोषः स्यात् । यथा श्री-नारदोक्तौ—
गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः ।
स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥ इति ।
यः प्रथमं शाब्दे परे च निष्णातं [भा।पु। ११.३.२१] इत्य्-आद्य्-उक्त-लक्षणं गुरुं नाश्रितवान्, तादृश-गुरोश् च मत्सरादितो महाभागवत-सत्कारादाव् अनुमतिं न लभते, स प्रथमत एव त्यक्त-शास्त्रो न विचार्यते । उभय-सङ्कट-पातो हि तस्मिन् भवत्य् एव ।
एवम्-आदिकाभिप्रायेणैव—
यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः ।
ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम् ॥ इति नारद-पञ्चरात्रे ।
अत एव दूरत एवाराध्यस् तादृशो गुरुः । वैष्णव-विद्वेषी चेत् परित्याज्य एव ।
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ [म।भा। ५.१७८.२४] इति स्मरणात् ।
तस्य वैष्णव-भाव-राहित्येणावैष्णवतया अवैष्णवोपदिष्टेन इत्य्-आदि-वचन-विषयत्वाच् च ।
यथोक्त-लक्षणस्य गुरोर् अविद्यमानायां तु, तथैव2 महा-भागवतस्यैकस्य नित्य-सेवनं परमं श्रेयः । स च श्री-गुरुवत् सम-वासनः स्वस्मिन् कृपालु-चित्तश् च ग्राह्यः ।
यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।
स्व-कुलर्द्ध्यै ततो धीमान् स्व-यूथान्य् एव संश्रयेत् ॥ [ह।भ।सु। ८.५१]
इति श्री-हरि-भक्ति-सुधोदय-दृष्ट्या कृपां विना तस्मिन् चित्तारत्या च ।
अथ सर्वस्यैव भागवत-चिह्न-धारि-मात्रस्य तु यथा-योग्यं सेवा-विधानम् । तत्र महा-भागवत-सेवा द्विविधा—प्रसङ्ग-रूपा, परिचर्या-रूपा च । तत्र प्रसङ्ग-रूपा, यथा—
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ [भा।पु। ११.१२.१-२]
पूर्वाध्याये—
इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः ।
लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥ [भा।पु। ११.११.४७]
इत्य् अनेन साधु-सेवया भक्ति-निष्ठा-जनने साधनानन्तर-स-व्यपेक्षत्वम् इवोक्तम्3 । अत्र इष्ट-शब्देन सप्तम-स्कन्धोक्त-रीत्याग्निहोत्र-दर्श-पौर्णमास-चातुर्मास्य-याग-पशु-याग-वैश्वदेव-बलि-हरणान्य् उच्यन्ते [भा।पु। ७.१५.४८-४९] । पूर्त-शब्देन सुरालयाराम-कूप-वापी-तडाग-प्रपान्न-सत्राण्य् उच्यन्ते [भा।पु। ७.१५.४९] ।
अत्र तु _इष्टं**,** _हविषाग्नौ यजेत माम् [भा।पु। ११.११.४७] इत्य्-आदौ अग्निहोत्राद्य् उपलक्षितं, _पूर्तम्_उद्यानोपवनाक्रीड- [भा।पु। ११.११.३८] इत्य्-आद्य्-उपलक्षितं ज्ञेयम् । एवं पूर्वोक्त-प्रकारेणेष्टा-पूर्तेन यो मां यजेत स मत्-स्मृतिः, तत्र साधु-सेवया सतां प्रसङ्गेन _सद्-भक्तिम् _अन्तरङ्ग-भक्ति-निष्ठां प्राप्नोतीत्य् अर्थः । तत्राग्नि-होत्रादीनां भक्तौ प्रवेशोऽग्न्य्-अन्तर्यामि-रूप-भगवद्-अधिष्ठानत्वेनाग्न्य्-आदि-सन्तर्पणात् । कूपारामादीनां च तत्-परिचर्यार्थं क्रियमाणत्वात् तत्र प्रवेशः ।
तद् एवं सत्-सङ्गस्य सव्यपेक्षत्वम्4 उक्तम् । पुनश् च तत्रैव तस्य स्वातन्त्र्येण यथेष्ट-फल-दातृत्वं, सर्वापेक्षया परम-सामर्थ्यं च वक्तुं परम-गुह्यम् उपदिष्टम् ।
अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन ।
सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ [भा।पु। ११.११.४९] इति ।
एतादृश-महिमत्वेनानूक्तत्वात् तद् एतत् परम-गुह्यत्वम् आह—न रोधयति इति । त्यागः सन्न्यासः । दक्षिणा दान-मात्रम् । यज्ञो देव-पूजा । छन्दांसिस-रहस्य-मन्त्राः । यथा सत्-सङ्गो माम् अवरुन्धे वशीकरोतीति, तथा योगोन वशीकरोति, न च साङ्ख्यम् इत्य्-आदिकोऽन्वयः । ततस् तेऽपि किञ्चिद् वशीकुर्वन्तीत्य् अर्थ-लब्धेर् भगवत्-परा एव ज्ञेयाः, न च साधारणाः । अत एव च व्रतान्य् एकादश्य्-आदीनि इति टीका-काराः । न चैतावता तेषां नित्यानां वैष्णव-व्रतादीनाम् अकर्तव्यत्वं प्राप्तम्, एकस्य फलातिशय-सामर्थ्य-प्रशंसया इतरस्य नित्यत्व-निराकरणायोगात् । यथा कर्माधिकारिणः—
न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् ।
इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥ [भा।पु। ७.१४.१७]
इति श्रुत्वापि पूर्वोक्तम् अग्निहोत्रादिना यजेत् [भा।पु। ७.१४.१६] इति विधिं न परित्यक्तुं शक्नुवन्ति, तद्वत् । भक्त्य्-अधिकारिणश् च यथा मद्-भक्त-पूजाभ्यधिका [भा।पु। ११.१९.२९] इति श्रुत्वापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्-पूजां त्यक्तुं न शक्नुवन्ति, तद्वद् इति । अत एव—
षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् ।
विष्णोर् नैवेद्य-सिक्थेन तत् फलं भुञ्जतां कलौ ॥ इत्य् अपि न बाधकम् ।
एकादश्य्-आदौ हि नित्यत्वेऽप्य् आनुषङ्गिकम् एव महा-फलकत्वं तत्र तत्र मतम् । अत एव नित्यत्व-रक्षणार्थम् अपि तादृशं वैष्णवं व्रतम् अवश्यम् एव कर्तव्यम् इत्य् आगतम् । नित्य-वैष्णव-व्रतत्वादिकं चैकादश्यादेर् अर्चन-प्रसङ्गे किञ्चिद् दर्शयिष्यामः । अत एव पूर्वाध्याये टीका-कारैर् अपि आज्ञायैवं गुणान् दोषान् [भा।पु। ११.११.३२] इत्य् अत्र, विद्धैकादशी-कृष्णैकादश्य्-उपवासानुपवासानिवेद्य-श्राद्धादयो ये भक्ति-विरुद्धा धर्मास् तान् सन्त्यज्य इत्य् अर्थः इत्य् उक्तम् । प्रथमे च श्री-भीष्म-युधिष्ठिर-संवादे भगवद्-धर्मान् [भा।पु। १.९.२४] इत्य् अत्र हरि-तोषणाद् द्वादश्य्-आदि-नियम-रूपान् इति, व्रतानि चेरे हरि-तोषणानि [भा।पु। ३.१.१९] इत्य् अत्र तृतीय च एकादश्य्-आदीनि इति व्याख्यातम् । अत एव भगवन्-महा-प्रसादैक-व्रतस्य श्रीमद्-अम्बरीषस्य सच्-छिरोमणेर् आचार-दर्शनात्5 तद् एव निश्चीयत इति ॥