तद् एवं शरणापत्तिर् विवृता । अस्याश् च पूर्वत्वं, तां विना तदीयत्वासिद्धेः । तत्र यद्यपि शरणापत्त्यैव सर्वं सिध्यति,
शरणं तं प्रपन्ना ये ध्यान-योग-विवर्जिताः ।
ते वै मृत्युम् अतिक्रम्य यान्ति तद् वैष्णवं पदम् ॥ इति गारुडात्,
तथापि वैशिष्ट्य-लिप्सुः शक्तश् चेत् ततो भगवच्-छास्त्रोपदेष्टॄणां भगवन्-मन्त्रोपदेष्टॄणां वा श्री-गुरु-चरणानां नित्यम् एव विशेषतः सेवां कुर्यात् । तत्-प्रसादो हि स्व-स्व-नाना-प्रतीकार-दुस्त्यजान् अर्थ-हानौ परम-भगवत्-प्रसाद-सिद्धौ च मूलम् । पूर्वत्र,1 यथा सप्तमे श्री-नारद-वाक्यम्—
असङ्कल्पाज् जयेत् कामं क्रोधं काम-विवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥
आन्वीक्षिक्या शोक-मोहौ दम्भं महद्-उपासया ।
योगान्तरायान् मौनेन हिंसां कामाद्य्-अनीहया ॥
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना ।
आत्मजं योग-वीर्येण निद्रां सत्त्व-निषेवया ॥
रजस् तमश् च सत्त्वेन सत्त्वं चोपशमेन च ।
एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥ [भा।पु। ७.१५.२२-२५] इति ।
उत्तरत्र2 वामन-कल्पे ब्रह्म-वाक्यम्—
यो मन्त्रः स गुरुः साक्षाद् यो गुरुः स हरिः स्वयम् ।
गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ॥ इति ।
अन्यत्र—
हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन ।
तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥ इति ।
अत एव सेवा-मात्रं तु नित्यम् एव । यथा चान्यत्र परमेश्वर-वाक्यम्—
प्रथमं तु गुरुः पूज्यः ततश् चैव ममार्चनम् ।
कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥[ह।भ।वि। ४.३४४] इति ।
अत एव नारद-पञ्चरात्रे—
वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् ।
पूजयेद् वाङ्-मनः-कायैः स शास्त्र-ज्ञः स वैष्णवः ॥
श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ इत्य्-आदि ।
पाद्मे देवद्युति-स्तुतौ—
भक्तिर् यथा हरौ मेऽस्ति तद्-वरिष्ठा3 गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ इति ।
तस्माद् अन्यद्भगवद्-भजनम् अपि नापेक्षते । यथोक्तम् आगमे पुरश्चरण-फल-प्रसङ्गे—
यथा सिद्ध-रस-स्पर्शात् ताम्रं भवति काञ्चनम् ।
सन्निधानाद् गुरोर् एवं शिष्यो विष्णु-मयो भवेत् ॥ इति ।
तद् एतद् आह—
नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ [भा।पु। १०.८०.३४]
टीका च—ज्ञान-प्रदाद् गुरोर् अधिकः सेव्यो नास्तीत्य् उक्तम् । अत एव तद्-भजनाद् अधिको धर्मश् च नास्तीत्य् आह—नाहम् इति । इज्या गृहस्थ-धर्मः । प्रजातिः प्रकृष्टं जन्म उपनयनं, तेन ब्रह्मचारि-धर्म उपलक्ष्यते, ताभ्याम् । तथा तपसा वनस्थ-धर्मेण । उपशमेन यति-धर्मेण वा । अहं परमेश्वरस् तथा न तुष्येयं, यथा सर्व-भूतात्मापि गुरु-शुश्रूषया ॥इत्य् एषा ।
अत्र ज्ञानं ब्रह्म-निष्ठं भगवन्-निष्ठं चेति द्विविधम् । तत्र पूर्वत्र तथैव व्याख्या । उत्तरत्र4 त्व् एवम्—इज्या पूजा । प्रजातिर् वैष्णव-दीक्षा । तपः समाधिः । उपशमो भगवन्-निष्ठेति ॥
॥ १०.८० ॥ श्री-भगवान् श्रीदाम-विप्रम् ॥ २३७ ॥