एवम् एकादशी-जन्माष्टम्य्-आदि-गतोऽपि ज्ञेयः ।
अथ वैधी-भेदाः शरणापत्ति-श्री-गुर्व्-आदि-सत्-सेवा-श्रवण-कीर्तनादयः । एते च प्रत्येकम् अपि द्वि-त्रादयः समुदित्यापि कारणानि भवन्ति, तथा श्रवणात् ।
तत्र प्रथमतः शरणापत्तिः । षड्-वर्गाद्य्-अरि-कृत-संसार-भय-बाध्यमान1 एव हि शरणं प्रविशत्य् अनन्य-गतिः । भक्ति-मात्र-कामोऽपि तत्-कृत-भगवद्-वैमुख्य-बाध्यमानः2 । अनन्य-गतित्वं च द्विधा दर्श्यते—आश्रयान्तरस्याभाव-कथनेन, नातिप्रज्ञया 3 कथञ्चिद् आश्रितस्यान्यस्य त्याजनेन च । पूर्वेण यथा—
मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत्-पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भा।पु। १०.३.२७] इति ।
उत्तरेण यथा—
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ [भा।पु। ११.१२.१४-१५] इति ।
चोदनां श्रुतिं प्रतिचोदनां स्मृतिम् ॥ इति टीका च ।श्री-गीतासु च—सर्व-धर्मान् परित्यज्य [गीता १८.६६] इत्य्-आदि ।
तस्या शरणापत्तेर् लक्षणं वैष्णव-तन्त्रे—
आनुकूल्यस्य सङ्कल्पः प्रतिकूल्य-विवर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ इति ।
अङ्गाङ्गि-भेदेन षड्-विधा । तत्र गोप्तृत्वेवरणम् एवाङ्गि शरणागति-शब्देनैकार्थ्यात्, अन्यानि त्व् अङ्गानि तत्-परिकरत्वात् । आनुकूल्य-प्रातिकूल्ये तद्-भक्तादीनां शरणागतस्य भावस्य वा ।
रक्षिष्यतीति विश्वासः, क्षेमं विधास्यति स नो भगवांस् त्र्य्-अधीशस् तत्रास्मदीय-विमृशे न कियान् इहार्थः [भा।पु। ३.१६.३७] इत्य्-आदि-प्रकारः ।
आत्म-निक्षेपः—केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि[गौ।त। ७.२०] इति गौतमीय-तन्त्रोक्त-प्रकारः। यथोक्तं पाद्मोत्तर-खण्डे चाष्टाक्षरस्य नमः-शब्द-व्याख्याने—
अहङ्कृतिर् म-कारः स्यान् न-कारस् तन्-निषेधकः ।
तस्मात् तु नमसा क्षेत्रि-स्वातन्त्र्यं4 प्रतिषिध्यते ॥
भगवत्-परतन्त्रोऽसौ तदायत्तात्म-जीवनः।5
तस्मात् स्व-सामर्थ्य-विधिं त्यजेत् सर्वम् अशेषतः ॥
ईश्वरस्य तु सामर्थ्यान् नालभ्यं तस्य विद्यते ।
तस्मिन् न्यस्त-भवः शेते तत्-कर्मैव समाचरेत् ॥ [प।पु। ६.२२६.४१-४६] इति ।
अत एव ब्रह्म-वैवर्ते—
अहङ्कार-निवृत्तानां केशवो न हि दूरगः ।
अहङ्कार-युतानां हि मध्ये पर्वत-राशयः ॥इति ।
अत एव तृतीये ब्रह्म-स्तवे स्वातन्त्र्याभिमानिनः संसारः श्रूयते—
यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ-
माया-बलं भगवतो जन ईश पश्येत् ।
तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत
व्यर्थापि दुःख-निवहं वहती क्रियार्था ॥ [भा।पु। ३.९.९] इति ।
कार्पण्यं—
परम-कारुणिको न भवत्-परः
परम-शोच्यतमो न च मत्-परः [पद्या। ६६]इत्य्-आदि-प्रकारम् ।
गोप्तृत्वे वरणं च, यथा नारसिंहे—
त्वां प्रपन्नोऽस्मि शरणं देव-देवं जनार्दनम् ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ इति प्रकारम् ।
तद् अपि त्रि-प्रकारं कायिकत्वादि-भेदेन, यथोक्तं ब्रह्म-पुराणे—
कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः ॥ इति ।
व्याख्यातं श्री-हरि-भक्ति-विलासे—
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ [ह।भ।वि। ११.६७७] इति ।
तद् एवं यस्य सर्वाङ्ग-सम्पन्ना शरणापत्तिः, तस्य झटित्य् एव सम्पूर्ण-फला, अन्येषां तु यथा-सम्पत्ति यथा-क्रमं चेति ज्ञेयम् । ताम् एतां शरणापत्तिं श्लाघते—
ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ [भा।पु। ११.१९.९]
शरणागतानां सर्व-दुःख-दूरीकरणं निज-माधुरीणां सर्वतो-वर्षं चात्राभिहितम्6 ॥
॥ ११.१९ ॥ उद्धवः श्री-भगवन्तम् ॥ २३६ ॥