तद् एवं बहुधा साधितैषा
अकिञ्चनात्यन्तिकीत्य्-आदि-संज्ञा भक्तिर् द्विविधा—
वैधी, रागानुगा चेति ।
तत्र वैधी शास्त्रोक्त-विधिना प्रवर्तिता ।
स च विधिर् द्विविधः—
तत्र प्रथमः प्रवृत्ति-हेतुः,
तद् अनुक्रम-कर्तव्याकर्तव्यानां ज्ञान-हेतुश् च ।
प्रथमस् तूदाहृतः—
तस्माद् एकेन मनसा
भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च
ध्येयः पूज्यश् च नित्यदा ॥
[भा।पु। १.२.१४]
इत्य्-आदिना ।
द्वितीयश् चार्चन-व्रतादि-गतः । तम् आह—
माम् एव नैरपेक्ष्येण
भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत
एवं यः पूजयेत माम् ॥
[भा।पु। ११.२७.५३]
नैरपेक्ष्येण अहैतुकेन ।
अहैतुक-भक्ति-योग एव कथं स्यात् ?
तत्राह—भक्ति-योगम् इति । एवं—
यदा स्व-निगमेनोक्तं
द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या
श्रद्धया तन् निबोध मे ॥
अर्चायां स्थण्डिलेऽग्नौ
वा सूर्ये वाप्सु हृदि द्विजे ।
द्रव्येण भक्ति-युक्तोऽर्चेत्
स्व-गुरुं माम् अमायया ॥1[भा।पु। ११.२७.८-९]
इत्य्-आद्य्-उक्त-विधिना ॥
॥ ११.२७ ॥ श्री-भगवान् ॥ २३५ ॥
-
एष श्लोकः ख-करलिपितः प्राप्तः ॥ ↩︎