अथ यस्या एवोत्कर्ष-ज्ञानार्थम् एते भक्ति-भेदा निरूपिताः, सा भक्ति-मात्र-कामत्वान् निष्कामा निर्गुणा केवला स्वरूप-सिद्धा निरूप्यते । इयम् एवाकिञ्चनाख्यत्वेन सर्वोर्ध्वं पूर्वम् अप्य् अभिहिता । ताम् आह—
मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।
मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते ॥ [भा।पु। ३.२९.११-१५]
मद्-गुण-श्रुति-मात्रेण, न तु तत्रोद्देश्यान्तर-सिद्ध्य्-अभिप्रायेण । प्राकृत-गुण-मय-करणानां सर्वेषांगुहा करणागोचर-पदवी, तस्यां शेते गुह्यतया निश्चलतया च तिष्ठति यः, तस्मिन् मयिअविच्छिन्ना विषयान्तरेण विच्छेत्तुम् अशक्या या मनो-गतिः, सा ।
अविच्छिन्नत्वे दृष्टान्तः—यथेति । गतिर् इति पूर्वस्माद् आकृष्यते1 नित्यापेक्षात्वात्2 छान्दसत्वात्।3 लक्षणं स्वरूपम् ।
ननु तस्या गुण-श्रुतेः का वार्ता, उद्देश्यान्तराभावेन मनो-गतित्वाभावेन च द्विधापि निर्देष्टुम् अशक्त्यत्वात् ? तत्राह—अहैतुकी, फलानुसन्धान-रहिता । अव्यवहिता स्वरूप-सिद्धत्वेन साक्षाद्-रूपा, न त्व् आरोप-सिद्धत्वेन व्यवधानात्मिका । तादृशी या भक्तिः श्रोत्रादिना सेवन-मात्रं, सा च तस्य स्वरूपम् इत्य् अर्थः । मात्र-पदेनाविच्छिन्नेत्य् अनेन च मनो-गतेर् अहैतुकीत्वादि-सिद्धेः पृथग्-योजनानर्हत्वात् । सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२५] इत्य्-आदिषु, निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२५] इत्य्-आदिभिस् तद्-आश्रय-क्रियादीनां निर्गुणत्व-स्थापनात्—
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं सर्व-भूतानां4 साम्यासङ्गादयोऽगुणाः ॥ [भा।पु। ११.१३.४०]
इत्य् अत्र तद्-गुणानाम् अप्य् अप्राकृतत्व-श्रवणाद् अहैतुकीत्वम् एव विशेषतो दर्शयति—जना मदीयाः । सालोक्यादिकम् अप्य् उत, अपि दीयमानम् अपि न गृह्णन्ति । मत्-सेवनं विनेति गृह्णन्ति चेत्, तर्हि मत्-सेवनार्थम् एव गृह्णन्ति, न तु तद्-अर्थम् एवेत्य् अर्थः । सार्ष्टिः समानैश्वर्यम् । एकत्वं भगवत्-सायुज्यं ब्रह्म-सायुज्यं च । अनयोस् तल्-लीनात्मकत्वेन तत्-सेवनार्थत्वाभावाद् अग्रहणावश्यकत्वम् एवेति भावः । तस्मात् स एव निर्गुण-भक्ति-योगाख्य आत्यन्तिकः, स एव चात्यन्तिक-फलतया भवतीत्य् अपवर्ग इत्य् अर्थः, नात्यन्तिकं विगणयन्ति [भा।पु। ३.१५.४८] इत्य्-आदेः, आत्यन्तिक-प्रलयतया तत्-प्रसिद्धेश् च ।
ननु गुण-त्रयात्यय-पूर्वक-भगवत्-साक्षात्कार एवापवर्ग इति चेत्, तस्यापि तादृश-धर्मत्वं स्वतः सिद्धम् एवेत्य् आह—येनेति । येन कदाचिद् अप्य् अपरित्याज्येन मम भावाय विद्यमानतायै साक्षात्कारायेत्य् अर्थः । उपपद्यते समर्थो भवति । यथोक्तं पञ्चमे, यथा वर्ण-विधानम् अपवर्गश् च भवति [भा।पु। ५.१९.१९], योऽसौ भगवति [भा।पु। ५.१९.२०] इत्य्-आदिकम्, अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण [भा।पु। ५.१९.२०] इत्य् अन्तम् ।
अतो निर्गुणापि बहुधैवावगन्तव्या । एवम् एवोक्तम् एतत्-प्रकरणारम्भे—
भक्ति-योगो बहु-विधो मार्गैर् भाविनि5 भाव्यते ।
स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥ [भा।पु। ३.२९.७] इति ।
मार्गैः प्रकार-विशेषैः । अतः स्वस्य भक्ति-योगस्यैव मार्गेण वृत्ति-भेदेन श्रवणादिना भावस्याभिमानस्य तद्-भेदेन दास्यादिना गुणानां तम-आदीनां च तद्-भेदेन हिंसादिना पुंसां भावोऽभिप्रायो विभिद्यत इत्य् अर्थः ।अत्र मुक्ता-फल-टीका च—अयम् आत्यन्तिकः, ततः परं प्रकारान्तराभावात् । अस्यैव भक्ति-योग इत्य् आख्या । अन्वर्थेन भक्ति-शब्दस्यात्रैव मुख्यत्वात् । इतरेषु फल एवानुरागो न तु विष्णौ फल-लाभेन भक्ति-त्यागात् ॥ [मु।फ। ५.१४]इत्य् एषा ।
श्री-गोपाल-तापनी-श्रुतौच—भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [गो।ता।उ। १.१४] इति ।
शतपथ-श्रुतौ—स होवाच याज्ञवल्क्यस् तत् पुमान् आत्म-हिताय प्रेम्णा हरिं भजेत् इति । प्रेम्णा प्रीति-मात्र-कामनया यद् आत्म-हितं तस्मै इत्य् अर्थः ॥
॥ ३.२९ ॥ श्री-कपिल-देवः ॥ २३१-२३४ ॥