२३३

अथ कैवल्य-कामा सात्त्विक्य् एव । सा यथा—

कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् ।
यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥ [भा।पु। ३.२९.१०]

कर्म-निर्हारं मोक्षम् उद्दिश्यपरस्मिन् परमेश्वरे यो वा कर्मार्पणं कुरुते, यो वा यष्टव्यं सर्वेषां नित्य-विधि-प्राप्तत्वेनावश्यम् एव तत्-पूजनं कर्तव्यम् इति बुद्ध्या, न तु भक्ति-तत्त्व-ज्ञानेन, यो यजेत् परमेश्वरं पूजयति, अत एव पूर्ववत् पृथग्-भावो भक्तेः पृथङ् मोक्षम् एव पुरुषार्थत्वेन भावयन्, स सात्त्विक उच्यते । उत्तरस्या अपि तात्पर्यं कर्म-निर्हार एव भवेद् इति । उक्तं च—सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२५] इति, कैवल्यं सात्त्विकं ज्ञानम् [भा।पु। ११.२५.२३] इति, सात्त्विकं सुखम् आत्मोत्थम् [भा।पु। ११.२५.२८] इति च तत्-साधन-साध्ययोः सगुणत्वम् । अत्रत्योदाहरणं यजेद् इत्य् उत्तरार्धम् एव ॥