उत्तरा यथा— विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा । अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥ [भा।पु। ३.२९.९] पृथक् मत्तोऽन्यत्र विषयादिष्व् एव भावः स्पृहा यस्य, न तु मयीति राजसत्व-हेतुता दर्शिता ॥