अथ केवल-स्वरूप-सिद्धोदाह्रियते । तत्र स-कामा कैवल्य-कामा चोपासक-सङ्कल्प-गुणैस् तत्-तद्-गुणत्वेनोपचर्यते । ततः स-कामा द्विविधा—तामसी राजसी च । पूर्वा यथा—
अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा ।
संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥ [भा।पु। ३.२९.८]
अभिसन्धाय सङ्कल्प्य । संरम्भी स-क्रोधः । भिन्न-दृक् स्वस्मिन्न् इव सर्वत्र यत्र सुखं दुःखं च तत्-तद्-अवेत्ता निरनुकम्प इत्य् अर्थः ॥