अथ ज्ञान-मिश्रा— दृष्ट-श्रुताभिर् मात्राभिर् निर्मुक्तः स्वेन तेजसा । ज्ञान-विज्ञान-सन्तृप्तो मद्-भक्तः पुरुषो भवेत् ॥ [भा।पु। ६.१६.६२] दृष्ट- इति ऐहिकामुष्मिक-विषयैः । स्वेन तेजसा विवेक-बलेन ॥ ॥ ६.१६ ॥ श्री-सङ्कर्षणश् चित्रकेतुम् ॥ २३० ॥